Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 130
________________ ANCIENT JAINA HYMNS च्युत्वा ततो हरिकुले विपुलेऽवतीर्णः श्रीमत्सुमित्रनपवंशविशेषकस्त्वम् । पद्मात्मजः प्रवरराजगृहे; गरीयः पुण्यास्पदं जनिमहं तव तेनुरिन्द्राः ॥ ५ ॥ आयुस्त्रिशत्रिभुवनविभो वत्सराणां सहस्रा देहोच्चत्त्वं तव जिनपते विंशतिः कार्मुकाणि । आद्यज्ञानत्रयपरिगतः श्यामवर्णाभिरामो राजत्वं ते मगधविपयं कूर्मलक्ष्मा व्यधास्त्वम् ॥ ६ ॥ उत्सृज्यातः पुरधनमहाराज्यराष्ट्रादि सर्वं । प्रवज्य सागधिगतमनःपर्ययज्ञानशाली । हत्वा मोहाद्यरिकुलवलं सारखादैस्तपोभि लोकालोकाकलन कुशलं कैवलं लेभिषे त्वम् ।। ७ ।। देहः स्वेदाममलविकलोऽतुल्यरूपः सुगन्धः श्वासः पङ्केरुहपरिमलः प्रोज्ज्वले मांसरक्ते । चर्माक्षाणामविषयमिहाहारनीहारकृत्यं चत्वारोऽमी लसदतिशया जन्मनस्ते सहोत्थाः ॥ ८ ॥ देवादीनां समवसरणे संस्थितिः कोटिकोटे र्वाणी तिर्यग्नरसुरसदोबोधिदानप्रवीणा । अर्कज्योतिर्विजयि विमलं देव भामण्डलं ते __ मौलेः पृष्ठे स्फुरति जगतो बाढमाश्चर्यकारि ।। ९ ॥ एकैकस्यां दिशि शतमितकोशमध्ये जनानां न स्युर्मारि वनभयदा स्वस्य चक्रोत्थभीतिः । दुर्भिक्षोग्रामयभरमहावृष्टयवृष्टीतिवैरं स्वामिन् कर्मक्षयसमुदिता एवमेकादशैते ॥ १० ॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185