Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 153
________________ THE TEXTS लोला त्वनुतिलोलुपा तव गुणग्रामायते मे श्रुति नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी । शीर्ष त्वत्पदमण्डनं तव विभो ध्यानकतानं मनो जातं तन्मम सर्वमेव शुभकृदात्माप्ययं स्वन्मयः ॥१७॥ शस्य त्वद्गुणचक्रवालजलधेः पारं न यामि प्रभो आत्मीयोत्कटदुष्टदुष्कृततते! यामि पारं पुनः । तस्माद्देव तथा विधेहि भगवन् प्राप्नोमि पारं तयोः सम्यक्त्वेन विधाय भव्यकरुणां कारुण्यपात्रे मयि ॥१८॥ श्रीखण्डागुरुधूपवासनिवहैः कर्पूरपूरैस्तथा काश्मीरद्रवसान्द्रचान्द्रविहितैः सद्वन्दनैश्चान्दनैः । स्वामिस्त्वत्पदयामलं गतमलं येऽर्ध्वन्ति चर्चाचणा लोके लोकिततत्त्वसत्त्वसहितास्तेऽप्यर्चनीयाः सदा ॥१९॥ विष्णुस्त्वं भुवनेऽसि भूपतिरसि श्रेयस्करः शङ्करो धाता सत्यमहानती शतधतिः कालारिरुग्रस्तथा । ऋद्धया सिद्धियुतः कृतीजजनको गौरीगुरुस्त्वं सदा जैनै नेतरैश्चाद्भुततरविभवर्गीयसेऽस्यां जगत्यां ॥२०॥ सूरिश्रीविजयप्रभादिसुगुरौ राज्यस्थितिं कुर्वति प्रीत्येवं नयपूर्वताविमलयुङ्नाम्ना प्रभुः संस्तुतः । भूयास्त्वं भवभीतिभेदभिदुराकारोपमानः सदा । स्वमद्रुमसानभो मम पुनः सर्वार्थसम्पत्तये ॥२१॥ 117

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185