________________
THE TEXTS
लोला त्वनुतिलोलुपा तव गुणग्रामायते मे श्रुति
नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी । शीर्ष त्वत्पदमण्डनं तव विभो ध्यानकतानं मनो
जातं तन्मम सर्वमेव शुभकृदात्माप्ययं स्वन्मयः ॥१७॥
शस्य त्वद्गुणचक्रवालजलधेः पारं न यामि प्रभो
आत्मीयोत्कटदुष्टदुष्कृततते! यामि पारं पुनः । तस्माद्देव तथा विधेहि भगवन् प्राप्नोमि पारं तयोः
सम्यक्त्वेन विधाय भव्यकरुणां कारुण्यपात्रे मयि ॥१८॥
श्रीखण्डागुरुधूपवासनिवहैः कर्पूरपूरैस्तथा
काश्मीरद्रवसान्द्रचान्द्रविहितैः सद्वन्दनैश्चान्दनैः । स्वामिस्त्वत्पदयामलं गतमलं येऽर्ध्वन्ति चर्चाचणा
लोके लोकिततत्त्वसत्त्वसहितास्तेऽप्यर्चनीयाः सदा ॥१९॥
विष्णुस्त्वं भुवनेऽसि भूपतिरसि श्रेयस्करः शङ्करो
धाता सत्यमहानती शतधतिः कालारिरुग्रस्तथा । ऋद्धया सिद्धियुतः कृतीजजनको गौरीगुरुस्त्वं सदा
जैनै नेतरैश्चाद्भुततरविभवर्गीयसेऽस्यां जगत्यां ॥२०॥
सूरिश्रीविजयप्रभादिसुगुरौ राज्यस्थितिं कुर्वति
प्रीत्येवं नयपूर्वताविमलयुङ्नाम्ना प्रभुः संस्तुतः । भूयास्त्वं भवभीतिभेदभिदुराकारोपमानः सदा । स्वमद्रुमसानभो मम पुनः सर्वार्थसम्पत्तये ॥२१॥
117