Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 154
________________ ANCIENT JAINA HYMNS ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति मन्त्रद्विकं तेषां साम्राज्यलक्ष्मीः कृतकलनिलया जायते संमुखीना । सप्ताङ्गा; गाङ्गनीराकृतिविशदयशोरा शिंरुज्जम्भते;ऽस्मि - ल्लोके सम्पूर्णकामोऽमितगुणनिकरस्थैर्यमालम्बते ते ॥११॥ कृत्वाली के च वामेतरभुजयुगले नाभिदेशे च वक्त्रे शस्ते हस्तद्वये वा ह्यभिमतफलदं मूर्ध्नि संस्थापयित्वा । पार्श्व शङ्खश्वराख्यं सुरतरुकरणिं ये जपन्तीह शश्व - त्ते भव्या यान्ति सिद्धिं तनुतरदुरिता द्वित्रकैः सद्मवैश्च ॥ १२॥ दुर्ध्यानद्रुमखण्डखण्डनखटो दुर्दम्यदन्ताबलः श्री धीराद्विमलप्रबोधकमलप्रीतिप्रदानोज्ज्वलः । सद्ध्यानप्रबलप्रतापबहुलज्वालावलीधूमलो ध्वस्ताशेषखलः खलीकृतमलः सिद्ध्यङ्गनाकामलः ॥१३॥ मूर्द्धिन स्फारफणीन्द्रजालजटिलोऽक्षुद्रक्षमाकन्दलः सम्यग्ज्ञानजलप्रवाहपयसा प्रक्षालितक्ष्मातलः । धैर्यस्वर्ग्यच: सुसाधितकलो दौर्गत्यवारार्गलो दत्ताभीष्टफलः पुनातु भुवनं पाव घनश्यामलः ॥१४॥ पार्श्व त्वत्पदपद्मपूजनकृते सत्केतकीनां वने तीक्ष्णैरुत्कटकण्टकैश्च सततं विध्यन्ति येषां कराः । तेषां चारुपतिंवरेव भविनां चक्रित्वशक्रश्रियः स्वैरस्थैर्यतया चलत्वरहिता भव्यं भजन्ते प्रभो ॥१५॥ साफल्यं जनुषो ममाद्य सुतरां जातं प्रशस्यो दिनः श्लाघ्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्यैव यदीश शर्मकृदिदं त्वद्दर्शनं प्रापितम् ॥१६॥ 116

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185