Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: SCIndia Oriental Institute Ujain

Previous | Next

Page 151
________________ . THE TEXTS श्रीमद्धचानविधानतानमनसा भव्यात्मनां भाविनां यन्नामापि पिपति पुण्यजनितान् कामान्मनोभीष्टकान् । विश्वाशापरिपूरणाय किमिमं विश्वागतं स्वस्तरं तं शवेश्वरपार्श्वनाथ० ॥५॥ त्रैमत्कास्यविलोकनान्मम करे स्फूजन्महासिद्धयः सम्प्राप्ता (सदामधीशविनुतप्राज्यप्रतिष्ठाः पुनः । सजाता परमा रमा सहचरी सौख्यं सदालिङ्गितं श्रीमच्छङ्खपुराधिनाथ जिनप प्रौढप्रभावाद्भुत ॥६॥ क्षीणाज्ञानभरो नतामरनरश्रेणिप्रयुक्तादरो ___ध्वस्ताशेषदरस्तमोभयहरः कर्मद्रुमे मुद्गरः । लोकोद्योतकरः स्मरज्वरहरः सौख्यद्रुधाराधरो दद्याद्भरितरप्रमोदनिवहं त्वन्नाममन्त्राक्षरः ॥७|| नष्ट दुष्टोग्रकर्माष्टककरटिगणैर्निर्गत क्रोधमान- ' प्रोद्यत्पञ्चप्रमादादिकचटुलतरोत्करैः कररूपैः । भग्नं पातकजातशाखिनिगहरापच्छिवाभिर्गत दृष्टेऽस्मिन् भवदीयदर्शनमहानादे' दयायुक् प्रभो ॥८॥ ऐंकारादिमसिद्धसाध्यमहिमा ओंकारहींकारयुङ् मायाबीजसमन्वितो विसहरस्फौलिंङ्गताश्लेषितः । अहंश्रींनमिऊणपासकलितस्त्रैलोक्यसौख्याकरो भूयाच्छीधरणेन्द्रसेवतपदः पार्श्वप्रभुभूतये ॥९॥ ओंकारप्रथितावदाततरयुग् हींकारसाराश्रितः पद्मावत्ये-नमोऽस्तु-स्फुटहनदहता-रक्ष-रक्षेति युक्तः । क्लीं श्रीं ब्लीं ह्तों प्रतियतिसमयं सस्वधामन्त्रबीजप्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ॥१०॥ 115

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185