Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 14
________________ काव्यमाला | वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गी भणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे | अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालंकाराणामपि गुणोपस्कार्यत्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालंकाराणां तुल्यववादिन एवौद्भटाः । इत्यमनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्वनिर्न पुनस्तद्व्यतिरिक्तः कश्चिद्धनिर्नामेति चिरंतनानां मतमित्युक्तम् । इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह - वक्रोक्तीत्यादि । वैदग्ध्येत्यनेन वक्रोक्तेः ः स्वरूपमुक्तम् । यदाह – 'वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ' इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह - 'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिवर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् । अलंकारा इति । तेनोक्ता इति शेषः । एवकारश्चिरंतनोक्तध्वनिप्रकार विशेष व्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभावेत्यर्थः । भणितिरित्युक्तिः । कवीति । तत्रैव कविः संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् । ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह—उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः । यदाह - 'यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवेकर्ते किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिष्यते ॥' इति । एतामेवोदाजहार च - 'गैअणं च मत्तमेहं धारालुलिअज्जुणाई अ वणाई | निरहंकारमिअङ्को हरन्ति नीलाओं अ णिसाओ ॥' अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपञ्च वक्रोक्तिभिरेव स्वीकृतः । सस्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह - केवलमित्यादि । तदीयमिति । वक्रोक्तिजीवितकारसंबन्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावानेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्य १. 'किंचित्कर्ते' क. २. 'गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरकारमृगाङ्का हरन्ति नीलाश्च निशाः ॥' इति च्छाया.

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218