Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला |
दावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रती - यमाना कथिता । रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव ।
प्रतिपादितम् । इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयतिरूपकेत्यादिना । तत्र रूपकं यथा - 'भीमभ्रू कुटिपन्नगी फणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्याटिकर्मल्लिकापरिचिते भा लाप्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥' अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः । दीपकं यथा—'पाउअबन्धं पढिउं बन्धेउं तह अ कुजकुसुमाई | पोढमहिलं अ रमिउं विरलच्चि के वि जाणेन्ति ॥' अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपहुतिर्यथा - 'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि || अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एव । तुल्ययोगिता यथा - 'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमपितमाननाद्वघघटयन्त कथंचन योषितः ॥' अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेग्रहणम् । उपमादीत्या - दिशब्दादुपमेयोपमादीनाम् । तत्तु यथा - 'प्रवातनीलोत्पल निर्विशेषमधीरविप्रेक्षितमायताक्ष्याः । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥' अत्र वाच्याया निदर्शनाया उपस्कारकत्वेनोपमेयोपमा गम्यते । तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः । अतश्चात्रालंकारो गम्यमानः स्थितो न वस्तुमात्रम् । तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव । तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् । वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम् । तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः । सा तु — 'मैहिला सहस्सभरिए तुह fare सुहअ सा अमायन्ती । दिअहं अणण्णअम्मा अनं तणुअं पि तणुएइ ॥ ' इति । तदित्थमलंकारोऽपि प्रतीयमानो वाच्यशोभा हेतुत्वेनोक्तः । अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह - रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः । आदिशब्दाच्च तदाभासादयः । तत्र रसवदलंकारो यथा - ' कृच्छ्रेणोरुयुगं व्यतीत्य सुचि
१. मल्लिका दीपाधारदण्डः २. 'प्राकृतबन्धं पठितुं बद्धुं तथा च कुब्जकुसुमानि । प्रौढमहिलां च रन्तुं विरला एव केऽपि जानन्ति ।। ' इति च्छाया. ३. 'महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति इति च्छाया.
קון

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 218