Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 15
________________ अलंकारसर्वस्वम् । भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । ___ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन वागविषयत्वादलक्षणीयत्वमुक्तमित्याह-भट्टनायकेत्यादि । प्रौढोवत्यति । न पुनर्लक्षणकरणेन । अत एवोक्तेः प्रौढत्वं यल्लक्षयितुमशक्यं तस्याप्यभ्युपगमः काव्यां. शत्वमिति न पुनः काव्यत्मत्वम् । यदाह-'ध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिता ॥' इति । व्यापारस्येति कविकर्मणः । अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योऽर्थप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् । यदुक्तम्-'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत् ।' इति । तत्रापीति । कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । 'अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्र्यंशं तेनोक्तम् । तत्रापि 'अभिधाधामतां याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ॥' इत्यंशद्वयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमानरः' इति तृतीयोंऽशः सहृदयगतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्' इत्युक्त्या परब्रह्मास्वादसविधवर्ती विश्रान्तिधामतयाभ्युपगतः । तदेवं यद्यपि 'तात्पर्यशक्तिरभिधालक्षणानुमिती द्विधा । अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलंकृतिः ॥ रसस्य कार्यता भोगो व्यापारान्तरबाधनम् । द्वादशेत्थं ध्वनरस्य स्थिता विप्रतिपत्तयः ॥' इति नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समानातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमचस्तदीयं' इत्युक्तनीत्यैव ध्वनेविप्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् ।.एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्यादिना । समयापेक्षार्थावगनशक्तिरभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थाव. बोधनशक्तिस्तात्पर्यम् । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणा । एतयापारत्रयानुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः । तथा च 'गङ्गायां घोषः' इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरुम्बे च संकेतितौ । सामान्य एवोद्यो १. 'आदृत्य' ख. २. 'इत्येतद्द्यस्य' ख. ३. ख-पुस्तके 'तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्' इति तुरीयपादोऽपि गृहीतः. ४. 'समयादर्थावगमन' ख. ५. 'गतिः' ख. ६. 'पादन' क.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 218