Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 16
________________ काव्यमाला । द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाध्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्गयरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् । गात् । विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्चाभिधया जलप्रवाहमात्रं गृहनिकुरुम्बमात्रं च प्रतीतमित्येका कक्ष्या । एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था । 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिविशेषणे' इत्यायुक्तयुक्त्या तस्या विरम्य व्यापारासंभवात् । 'सामान्यान्यन्यथासिद्धेविशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया । जलप्रवाहस्य च घो. षाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन्गङ्गाशब्दस्तदधिकरणयोग्यतटं लक्षय. तीति तृतीया । तत्र तावत्, 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता क्रिया ॥' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला । यश्च सामीप्यादिसंबन्धः स च प्र. माणान्तरावगम्य एव । यत्पुनरिदं घोषस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् । न तावत्प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमासिद्धेः । शब्दार्थे च तस्याप्रवृत्तेः । नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् । न स्मृतिः । तदनुभवाभावात् । सत्यामपि वा तस्यां नियतस्मरणं न स्यात् । अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभिधात्मा । समयाभावात् । न तात्पर्यात्मा । तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा । मुख्यार्थबाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्गयनिष्ठो व्यञ्जनाव्यापारोऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः । अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पनेऽपि समप्रैवेयं प्रक्रियानुसरणीयैवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः । ए. तच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम् । आदिशब्दात्प्रत्यायनावगमनादी. नामपि ग्रहणम् । अवश्यति । तेन विना व्यङ्गयस्यार्थस्यासंग्रहणात् । व्यापारस्येति । व्यअनात्मिकायाः क्रियाया इत्यर्थः । सा खलु साध्यमानत्वेन पूर्वापरीभतावयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदवीमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः । यद्वक्ष्यति-'व्यापारस्य विषयमुखेण स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्य(विदित)त्वाभावाद्विषयस्यैव १. 'प्रतीतमेवेत्येका' क. २. स च गङ्गाशब्दार्थादधिकरण' ख. ३. 'शाब्देऽर्थे क.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 218