Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् । रुद्रटेन तु भावालंकारो द्विधैवोक्तः । रूपकदीपकापहृतितुल्ययोगितावेति परस्य कुन्तवद्पस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् । अतश्च लक्षणायां बाधितः स. न्मुख्योऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तम् । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिद्धयर्थ परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् । इदं प्रतिप. त्तव्यम्-अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं सकार्य तदविनाभावात्परं कारणमाक्षिपतीत्याक्षपणेवै सिद्धेस्तस्या अनुपयोगः । 'गौरनुवन्ध्यः' इत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावा. द्वयक्तिराक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयोर्जेयम् । एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्यत्रापि लक्षणामूलत्वं नाशङ्कनीयम् । ग्रन्थकृता पुनरेतच्चिरंतनमतानुवादपरतयोक्तम् । अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना । उपमेयोपमा यथा-'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' अत्र द्वयोः परस्परमुपमानोपमे. यत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमान्तरविरहलक्षणे परत्र वस्त्वन्तरे स्वं समर्पयति । अनन्वयो यथा-'भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहतिः ॥' अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति । आदिशब्दः प्रकारे । तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणम् । यथा-'भवतु विदितं व्यर्थालापरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्गखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो ब्रीडा गते हतजीविते ॥' अत्र कान्तप्रस्थान विधिर्वाच्यः सनिषेद्धमेवोपक्रान्तस्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वमर्पणेन निषेधमाक्षिपति । एवं द्विविधया भङ्गथा गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम् ।
एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्यतीत्याशङ्कयाह-रुद्रटेनेत्यादि । द्विधेति । गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवनप्रतिबद्धेन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥ ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥ अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ।। एकाकिनी यदबला तरुणी तथाहमस्मद्रहे गृहपतिः स गतो विदेशम् । कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥' इति । यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् । तेनाये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थ स्वसमर्पणम् । यत्त्ववान्यैर्भावनिर्वेदादिभिरु. पलक्षितो वाच्यप्रतीयमानत्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव । रुद्रटेन तथात्वेन तस्याप्रतिपादनात् । तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् । तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 218