Book Title: Alankar Sarvasvam Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab Publisher: Tukaram Javaji View full book textPage 9
________________ अलंकारसर्वस्वम् । इह हि तावद्भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते । तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्' इति यथायोगं द्विविधया भङ्गचा प्रतिपादितं तैः । धेयाः । तेषामत्र साक्षादेवाभिधानात् । तदभिधायकं चेदमलंकारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेययोनियमगर्भीकारेणार्थाक्षिप्तो वाच्यवाचकभावलक्षण: संबन्धः । नह्येवंविधमेतदभिधायकं प्रकरणान्तरमस्ति । तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् । अत एवात्रान्यालंकारग्रन्थवैलक्षण्योद्घोषणाय 'तात्पर्यमुच्यते' इत्याद्युक्तम् । अभिधेयाश्चात्रालंकाराः काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यायुक्तनीत्या तदविनाभावस्वभावत्वादाक्षिप्तसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावाप्तिः प्रयोजनम् । तयोश्च साध्यसाधनभावलक्षणः संबन्धः । इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वम् । नेनु यदीहालंकारा अभिधेयास्तर्हि तदलंकार्योऽप्यभिधेयः । 'अलंकारा अलंकार्यापेक्षाः' इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्कय तैदवतरणिकामेव वक्तुमुपक्रमते-इहेत्यादिना । प्रभृतिना दण्ड्यादयः । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । चिरंतनेत्यादि । ध्वनिकारमतमेभिर्न दृष्टमिति भावः । प्रतीयमानमिति । वाच्यव्यतिरि. क्तत्वेन स्वसंवेदनसिद्धमपीत्यर्थः । अर्थमिति । विश्रान्तिस्थानतया परमोपादेयतालक्षणम् । वाच्योपस्कारकतयेति । वाच्योपस्कारकत्वं ह्यलंकाराणामात्मभूतम् । अलंकारपक्षनिक्षिप्तमिति । समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः । मन्यन्त इति । तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः । एतदेव दर्शयति-तथाहीत्यादिना। तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः । वस्तुमात्रं न पुनरलंकारा रसश्च । स्वसिद्धय इति । 'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तैरात्मनः प्रवेशसिद्धयथे स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तैविना तेषां प्रवेशासिद्धः । 'गङ्गायां घोषः' इत्यादौ तु गङ्गाशब्दः परत्र तटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति । स्वयं तस्य घोषाधिकरणत्वासंभवात्। यथायोगमिति । क्वचिद्धि वाच्योऽर्थःस्वसिद्धये परंप्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र यादृक्तत्र तागेव योज्यमित्यर्थः । तत्र पर्यायोक्तं यथा-'अधाक्षीनो लङ्कामयमयमुदन्व १. 'युक्त्या ' क. २. 'ननु च' ख. ३. 'तदवतारणिकां' क. ४. 'वाच्यसंस्कारकत्वेन' ख.Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 218