Book Title: Alankar Sarvasvam Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab Publisher: Tukaram Javaji View full book textPage 7
________________ काव्यमाला। श्रीमद्राजानकरुय्य(च)कमणीतम् अलंकारसर्वस्वम् । श्रीमद्राजानकजयरथप्रणीतयालंकारविमर्षिणीसमाख्यया व्याख्यया समेतम् । नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ मङ्गलकामनया ग्रन्थकृनिजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्य चैकेनैव वाक्येन परामृशति-नमस्कृत्येति । परां वाड्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्ति परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलसियिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्ठितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमाप्तये तां प्रति कायवाङ्मनोभिः प्रवीभूय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना। तथा चात्रोक्तलक्षणार्थविस्तर:-'येयं विमर्शरूपैव परमार्थचमत्कृतिः । सैव सारं पदार्थानां परा वागभिधीयते ॥ नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता । अनादिनिधना सैव सूक्ष्मा वागनपायिनी ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्र. क्रिया जगतो यतः ॥ वैखरी शब्दनिष्पत्तिमध्यमा स्मृतिगोचरा । द्योतिकार्थस्य प. श्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥' इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्माया: परायाः शब्दब्रह्मणः शक्तेर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम । तथा चोक्तम्-'अविभागा तु पश्यन्ती सर्वतः संहृतकमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥' इति । अस्यार्थः-अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तः सूक्ष्मबीजादङ्करमिव बहिरुन्मिषन्ती किंचिदुच्छूना पराया मध्यमायाश्वावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते । ततः परं तु–'अन्तः संकल्परूपा या क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥' एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता क्रमरूपानुपातिनी मानसिकवर्णोच्चारणक्रमेण द्वितीयो वि. वर्तो मध्यमारूपो जायते । मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्येPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 218