SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गी भणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे | अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालंकाराणामपि गुणोपस्कार्यत्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालंकाराणां तुल्यववादिन एवौद्भटाः । इत्यमनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्वनिर्न पुनस्तद्व्यतिरिक्तः कश्चिद्धनिर्नामेति चिरंतनानां मतमित्युक्तम् । इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह - वक्रोक्तीत्यादि । वैदग्ध्येत्यनेन वक्रोक्तेः ः स्वरूपमुक्तम् । यदाह – 'वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ' इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह - 'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिवर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् । अलंकारा इति । तेनोक्ता इति शेषः । एवकारश्चिरंतनोक्तध्वनिप्रकार विशेष व्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभावेत्यर्थः । भणितिरित्युक्तिः । कवीति । तत्रैव कविः संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् । ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह—उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः । यदाह - 'यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवेकर्ते किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिष्यते ॥' इति । एतामेवोदाजहार च - 'गैअणं च मत्तमेहं धारालुलिअज्जुणाई अ वणाई | निरहंकारमिअङ्को हरन्ति नीलाओं अ णिसाओ ॥' अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपञ्च वक्रोक्तिभिरेव स्वीकृतः । सस्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह - केवलमित्यादि । तदीयमिति । वक्रोक्तिजीवितकारसंबन्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावानेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्य १. 'किंचित्कर्ते' क. २. 'गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरकारमृगाङ्का हरन्ति नीलाश्च निशाः ॥' इति च्छाया.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy