Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 5
________________ सप्टेम्बर २०१० २७ त्रितयस्य चित्तं हरन्तीति तथा, तैः । उदारैर्महाथैः ॥ अत्राऽऽद्यवृत्तेऽतिशयाः, यथा-उद्योतकमिति पूजातिशयः । दलितपापतमोवितानमिति अपयापगमातिशयः, आलम्बनमिति ज्ञान-वचनातिशयौ, यतो ज्ञानी सद्वाक्यश्च जनाधारो भवति ॥ काव्यद्वयस्मरणाद् विपत्प्रलयो भवति, हेमश्रावकवत् ॥१-२॥ इति (अथ) कविरात्मौद्धत्यं परिजिहीर्षुराहबुद्धया विनाऽपि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ बुद्ध्या० । हे विबुधार्चितपादपीठ ! हे दैवतव्रातपूजितपदासन ! बुद्ध्या विनाऽप्यहं मानतुङ्गाचार्यः स्तोत्रं(स्तोतुं) समुद्यतमतिः स्तवाय कृतमतिव्यापारो वर्ते । अत एव विगतत्रपोऽशक्यवस्तुनि प्रवर्तनान्निर्लज्जः । दृष्टान्तमाह- बालं शिशुं विहाय मुक्त्वा कोऽन्योऽपरो जनः सचेतनो जलसंस्थितं नीरकुण्डमध्यप्रतिबिम्बितम् इन्दुबिम्बं चन्द्रमण्डलं ग्रहीतुं सहसा तत्कालमिच्छत्यभिलषति ?। बालस्तद्ग्रहणाग्रह[ग्रहि]लो भवति, नाऽपरः, अहमपि बालरूपो ज्ञेयः ॥३॥ अथ जिनेन्द्रस्तुतावन्येषां दुःकरतां दर्शयन्नाहवक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ?। कल्पान्तकालपवनोद्धतनक्रचक्र, ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ वक्तु० । हे गुणसमुद्र ! स्थैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते तव शशाङ्ककान्तान् निर्मला (निर्मलकलाभृत्) कमनीयान् शान्ततादीन् गुणान् वक्तुं जल्पितुं क्षमः समर्थः । किंभूतोऽपि ? प्रतिभया सुरगुरुप्रतिमोऽपि वाचस्पतिसमोऽपि । अत्र दृष्टान्तः-वाऽथवा अम्बुनिधि कस्तरणकलाकुशलो नरो भुजाभ्यां तरीतुं प्राप्तुमलंमशक्तः (प्राप्तुमलं शक्तः) ? अपि तु न कश्चिदित्यर्थः । किंभूतमम्बुनिधिम् ? कल्पान्तकालस्य पवनेनोद्धतानि ऊर्ध्वं चलितानि नक्रचक्राणिPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24