Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ अनुसन्धान ५२ तदपि किंभूतम् ? स्पष्टा[:] प्रकटा उल्लसन्त उद्गच्छन्तः यस्य [यस्माद् वा] तत् अस्ततमोवितानं क्षिप्तान्धकारप्रकार(-प्रकरम्)। सूरमण्डलस्वरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यम् ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं ___तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ सिंहा० । हे तीर्थपते ! मणिमयूखशिखाविचित्रे रत्नकान्तिचूलाचारुणि हैमे सिंहासने कनकावदातं हेमगौरं तव वपुर्देहं विभ्राजते भाति । किमिव ? सहस्ररश्मेबिम्बमिव । यथा सूरमण्डलं तुङ्गोदयादिशिरसि उन्नतपूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति आकाशे विलसन्तो द्योतमाना येऽशवः कराः, तेषां लतावितानं [मालाविस्तारो] यस्य [यस्माद् वा], तद् । अत्रांऽशुवृन्दसमा मणिमयूखमाला, पूर्वादिशिखरसमानं सिंहासनम्, रविबिम्बोपमानं वपुरिति समता । यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्णं वर्ण्यते ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ कुन्दा० । हे पारगत ! कलधौतकान्तं चामीकररुचिरं तव वपुर्देहं विभ्राजते । किंभूतम् ? कुन्दवदवदाताभ्यां चलाभ्यां चामराभ्यां चार्वी मनोज्ञा शोभा यस्य, तत् । [किमिव ?] सुरगिरेरुच्चैस्तटमिव शिखरमिव । यथा शातकौम्भं सौवर्णम्, उच्चैः उच्चं सुरगिरेमरोस्तटं प्रस्थं भाति । तदपि तटं उद्यन् उद्गच्छन् शशाङ्कश्चन्द्रवत् शुचिर्धवला निर्झरस्य वारिधारा जलवेणी यत्र [यस्माद् वा], तत् । अत्र मेरुतटसमं श्रीनाभेयदेहम्, निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैः स्थितं स्थगितभानुकरप्रतापम् ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24