Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
नमस्शब्दोऽव्ययः । किंभूताय ? त्रिभुवनार्तिहराय विश्वत्रयपीडानाशनाय । हे स्वामिन् ! तुभ्यं नमोऽस्तु, क्षितितलस्य भूपीठस्याऽमलभूषणाय । अथ[वा] क्षिति[:] पृथ्वी, तलं पातालम्, अमलं स्वर्ग:, तेषां त्रयाणां लोकानां भूषणाय । तुभ्यं नमोऽस्तु, त्रिजगतस्त्रैलोक्यस्य परमेश्वराय प्रकृष्टनाथाय । हे जिन ! तुभ्यं नमोऽस्तु, भवोदधिशोषणाय संसारसागरसन्तापनाय । अस्मिन् वृत्ते लक्ष्मीदायको मन्त्रोऽस्ति । चनिकश्रेष्ठिकथा ज्ञेया माहात्म्ये ॥२६॥
पुनर्युक्त्या गुणान् स्तौति
को विस्मयोऽत्र यदि नाम गुणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
३९
को विस्म० । हे मुनीश ! यदीत्यङ्गीकारे, नामेत्यामन्त्रणे । हे सकर्णा ! अस्माभिरङ्गीकृतोऽयमर्थ:, [निरवकाशतया ] सर्वाङ्गव्यापकतया पुरुषान्तरेऽनवस्थानतया, अशेषैः सर्वैर्गुणैस्त्वं संश्रितोऽत्रार्थे को विस्मयः ? । त्वं दोषैः स्वप्नान्तरेऽपि कदाचिदपि नेक्षितोऽसि । दोषैः किंभूतैः ? उपात्तैर्गृहीतैः प्राप्तैर्विविधैर्नानारूपैराश्रयैर्जात उत्पन्नो गर्वो येषां तैः । अस्मिन् वृत्ते मन्त्रः क्षुद्रोपद्रव-नाशकारी वाञ्छितलाभकरश्च, प्रभावे श्रीशाल (लि) वाहनभूपस्य कथा चाऽस्ति ॥२७॥
अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाहउच्चैरशोकतरुसंश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं
बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥
उच्चै० । हे सेवकजनकल्पवृक्ष[सदृक्ष ] ! भवतस्तव रूपं वपुर्नितान्तमत्यर्थमाभाति शोभते । किंभूतम् ? उच्चैरतिशयेन जिनदेहाद् द्वादशगुणोच्चोऽशोकतरुः कि(क)ङ्केल्लिवृक्षस्तं संश्रितम् । [उद्] उल्लसिता मयूखाः किरणा यस्य यस्माद् वा, तत् । अमलं स्वेदपङ्करहितत्वान्निर्मलम् । किमिवाऽऽभाति ? रिवे(रवे)र्बिम्बमिव । यथा रवेर्बिम्बं पयोधरपार्श्ववर्ति मेघसमीपस्थं भाति ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24