Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229325/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० २३ श्रीमानतुजाचार्य रचित श्रीभक्तामरस्तोत्रनी अज्ञातकर्तृक अवचूरि पंन्यास श्रीचन्द्रविजय _ आ. श्री विजयशीलचन्द्रसूरिजी म. द्वारा प्राप्त भक्तामर स्तोत्रनी अप्रगटहस्तलिखित अवचूरिनी प्रति, १० पत्रनी अने अन्तमांना उल्लेख प्रमाणे ३७६ श्लोक प्रमाणनी छे. अवचूरि तेने कही शकाय के : (१) ग्रन्थनी वृत्तिना लांबा अर्थो, वधारे करेली छणावट, बीजा पर्यायो, अर्थान्तरो वगेरे छोडी दईने सारभूत एवा मूलभूत टीकाना ज टीकांशो (२) अथवा ग्रन्थने संक्षिप्तरूपमां के (३) पर्यायरूपमां ढाळीने समजावq ते. भक्तामर स्तोत्रनी आ अवचूरि माटे कंईक जाणीए. अवचूरिकार प्रारम्भमां नमस्कारात्मक श्लोकमां देलुल्लुपुरनायक श्री युगादीश-आदीश्वर भगवानने नमस्कार करी भक्तामरमहास्तोत्रनो कंईक अर्थ जणावे छे. ____ श्लोक वांचता पहेला तो एवो ज ख्याल आवी जाय के : पोते ज स्तोत्र सम्बन्धी अर्थ जणावी रह्या छ- लखी रह्या छे. परन्तु अन्तमां लखेल"इति श्री भक्तामरस्तोत्रस्याऽवचूरिलिखिता वृत्तेरुपरि" एनाथी ख्याल आवे छे के वृत्ति उपरनी ज आ अवचूरि छे. अने ए वृत्ति सं. १४२६ ना वर्षे रुद्रपल्लीयगच्छीय पूज्य गुणाकरसूरि म. रचित १५७२ श्लोक प्रमाण विवृत्ति टीका. विवृत्तिटीकानी साथे सरखावता-मेळवता अवचूरि माटे करेल उपरोक्त अर्थघटन-विधान सार्थक जणाय छे. जैन साहित्य-जगतमां अवचूरि सम्बन्धी विपुल साहित्य प्रगट-अप्रगट स्वरूपे विद्यमान छे. __ प्रस्तुत अवचूरिना कर्ता कोण ? ते कई सालमां रचना वगेरे आदिअंतमां लखेल न होवाना कारणे जाणी शकातुं नथी. अवचूरिकारश्रीए प्रारम्भ श्लोकमां जणावेल 'देलुल्लापुर' नाम विशे, Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ आ प्रतिनुं लिप्यन्तर-संशोधन पूर्ण कर्या पछी ज्यारे मारा पू. गुरु म. (आ. श्री वि.सोमचंद्रसूरिजी म.)ने दृष्टिपात करवा माटे आपी त्यारे पूज्यश्रीए जणाव्यु के जेम इलादुर्ग-इडर, वटपद्र-वडोदरा, दर्भावती-डभोई, मुम्बादेवी-मुम्बई, भृगुकच्छ-भरुच, सूर्यपुर-सुरत, पत्तन-पाटण तेम देलुल्लापुर-देलवाडा होई शके! आभार सह पूज्यश्रीनी आ वात मनमां ठसी जाय तेम छे. ___पद्य १०ना प्रथम चरणमां जे 'भुवनभूषणभूत !' पाठ छे, तेमां भूतशब्द उपमावाची छे, तेवी स्पष्टता ध्यान देवा योग्य छे. पद्य ११नुं चोथु चरण 'जलनिधे रसितुं क इच्छेत् ?' ए प्रमाणे प्रसिद्ध छे. परन्तु अवचूरिमां स्पष्टतया 'जलमऽशितुं स्वादितुं' ए प्रमाणेनो पाठ छे. मुद्रित विवृत्तिटीका 'जलं रसितुं-स्वादितुं पातुमिच्छेत्' ए प्रमाणे छे. पद्य २०नी अवचूरिमां अने टीकामां (टीकामां सामान्य शाब्दिक फेरफार छे) 'अस्मिन् वृत्ते सूरिमन्त्रः, वक्ष्यमाणवृत्तषट्केषु सूरिमन्त्रो ज्ञेयः' आ प्रमाणे उल्लेख होवाथी २० थी २६ सुधीना पद्योमां सूरिमंत्र निहित छे, तेवू समजवू पडे. पद्य २५ना प्रथम चरण 'विबुधार्चितबुद्धिबोधात्'मां टीकाकार 'विबुधाविशिष्टपण्डिता-गणधरास्तैरर्चितस्तीर्थकरस्तस्य बुद्धिः-केवलज्ञानं तया बोधोवस्तुस्तोमस्य परिच्छेदस्तस्माद् विबुधाचितबुद्धिबोधात्' आ प्रमाणे टीका करे छे. परन्तु अवचूरिकार '०बोधो यस्य, तस्मात्' आम बहुव्रीहिसमास करी पञ्चम्यन्त करेल छे. पद्य ३३ना बीजा चरणमां अवचूरिकारने 'तथा परस्य' पाठना बदले 'तयाऽपरस्य' पाठसंमत छे केमके 'तथा तद्वदपरस्य' ए प्रमाणे अवचूरि मळे छे. स्तोत्रनु ४४मुं पद्य पूर्ण थया बाद- "इति भक्तामरस्तवसंपूर्णो लिखितः । युगप्रधानभट्टारक श्रीजिनचन्द्रसूरिशिष्य पण्डित हेममन्दिरगणीनां शिष्य पं. आणन्दकीर्तिगणीनां शिष्य पं. मेरुधीरमुनीनां शिष्य पं. डुंगरजी लिवी कृतम् ॥" आ प्रमाणेनो पाठ छे. __ आ. श्री वि. शीलचन्द्रसूरिजी म.नो आभार मानुं के जेओश्रीए निजी संग्रहमांथी आ प्रति आपी-श्रुतज्ञाननी सेवानो लाभ आप्यो. Page #3 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० __ २५ ॥ भक्तामरस्तोत्रावचूरिः ॥ प्रणम्य श्रीयुगादीशं, देलुल्लापुरनायकम् । भक्तामरमहास्तोत्रस्यार्थः कश्चन लिख्यते ॥१॥ उज्जयिन्यां नगर्यां वृद्धभोजराज्यपूज्योऽधीतशास्त्रपूरो मयूरो नाम पण्डितः प्रतिव[स]ति स्म । जामाता बाणः, सोऽपि विचक्षणः, द्वयोरन्योऽन्यं मत्सरः, तौ द्वावपि राजानमसेविषाताम् । एकदा बाणस्य स्वस्त्रिया सह प्रणयकलहः संजज्ञे । सा कामिनी मानिनी मानं नाऽमुञ्चत् । रजनी बहुरगच्छत् । मयूरः शरीरचिन्तार्थं व्रजन् तं भूभागमागमत् । वातायने दम्पत्योर्ध्वनं (ध्वनि) श्रुत्वा तस्थौ । ‘पतिव्रते ! क्षमस्वाऽपराधमेकम्, न पुनः कोपयिष्ये त्वाम्' इत्युक्त्वा बाणः पत्नीपदयोरपतत् । सा सनूपरा(पुरा)भ्यां पद्भ्यां तं जघान । गृहगवाक्षाधोभागस्थितेन मयूरेण बाणोक्तं 'सुभ्र' इति पदं श्रुतम् । श्रुत्वा मयूरो बाणमभाणीत्- 'सुभ्रुपदं मा वादीः, सकोपनत्वात्, 'चण्डि' इत्थं पठ' इत्याकर्ण्य सा सती मुखस्थताम्बूलरसक्षेपात् 'कुष्ठी भव' इति पुत्रीचरित्रप्रकाशकं जनकं शशाप । तत्क्षणं कुष्ठमण्डलान्यभवंस्तत्तनौ । ___बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरकवस्त्रं परिधाय समेतं मयूरं प्रति 'आविउ चिरकोढी' इति श्लिष्टं वच उवाच । राज्ञा तद् ज्ञात्वा दृष्ट्वा च 'कुष्ठं निर्गमय्याऽऽगन्तव्यम्' इत्यवादि मयूरः । तदनन्तरं सूर्यप्रासादे गत्वा सूर्यं संस्तूय निजकुष्ठं निर्गमितं मयूरेण । मयूरमहिममत्सरी बाणः पाणिचरणौ वर्धयित्वा कृतप्रतिज्ञः चण्डिकां संस्तुत्य चतुरङ्गानि पुनर्नवीचकार । तस्याऽपि महती पूजा राज्ञा चक्रे । तयोर्महिमानमालोक्य- 'किं शिवदर्शनं विनाऽन्यत्राऽप्येतादृक्षप्रभावकवित्वशक्तिकलितः कोऽप्यस्ति ?' इति पार्षद्यानपृच्छत् श्रीभोजः । राजमन्त्री श्रावकोऽवक्- 'देव ! शान्तिस्तवविधातृ-श्रीमानदेवाचार्यपट्टमुकुटा भयहरभत्तिहर(भर)स्तवादिप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः सन्ति । आकार्य पृष्टाः-'काञ्चन कवित्वकलां दर्शयध्वम्' इति । ते ऊचुः-'महाराज ! यदि निगड-नियन्त्रितात्मानं मोचयित्वा निस्सरामि, तदा कोऽप्यादिदेवप्रभावो ज्ञेयः । ततो राज्ञा लोहभारशृङ्खलबद्धसर्वाङ्गाः सतालकद्विचत्वारिंशन्निगडनियन्त्रिता उत्पाट्य Page #4 -------------------------------------------------------------------------- ________________ २६ अनुसन्धान ५२ गृहान्तः क्षिप्ताः । तत्र स्तोत्रस्यैकेन वृत्तेनैककं बन्धनं त्रुटितं क्रमेण । एके वदन्ति- द्विचत्वारिंशता वृत्तेनैकेन पेतुः । तालकभङ्गोऽपि [अ]जनिष्ट । बहिरागताः सूरयः । नमस्कृताः श्रीभोजेन । 'जिन (जैन) - दर्शनं सकलम्' इति मेने । इति स्तवमूलप्रबन्धः ॥ अथाऽर्थो लिख्यते, यथा भक्तामरप्रणतमौलिमणिप्रभाणा - मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा - वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधा-दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तौत्रैर्जगत्त्रितयचित्रहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ सम्यग् जिनपादयुगं प्रणम्य, 'किल' इति सम्भावनायाम्, ‘अहं तं प्रथमं जिनेन्द्रं स्तोष्ये' इति सम्बन्ध: । जिनस्य प्रथमतीर्थकृतः, पादौ चरणौ, तयोर्युगं युग्मं जिनपादयुगम्, सम्यक् त्रिकरणशुद्ध्या नत्वा । किंभूतम् ? उद्योतयतीति उद्योतकं प्रकाशकम् । भक्ताः परिचर्यायुक्ता येऽमरा देवास्तेषां नमस्कारवशात् प्रणता नम्रा ये मौलयो मुकुटानि शिरांसि वा, तेषां मणयश्चन्द्रकान्तादयस्तासां (तेषां) प्रभा रुचिस्तासाम् । पुनः किंलक्षणम् ? दलितं क्षिप्तं पापमेव तमोवितानं ध्वान्तजाल(लं) येन तत् । ऋजुजडनराणां शिल्पि (शिल्प)नीति-लिपिकलादर्शनात् चतुः पुरुषार्थप्रकटनाद् द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुःषमाप्रान्तेऽपि युगादिकालः कृतः, अतो युगादौ । भवो जन्म-जरामरणरूप: संसार एव जलम्, तत्र भवजले पततां मज्जतां भव्यसत्त्वानाम्, आलम्बनमाधारः सदुपदेशात् । यया जले पततां द्वीपं यानपात्रं [वा] आलम्बनम्, तथा भवे निमज्जतां जिनपादार[विन्द]मेवाऽऽधारः । अहमपि मानतुङ्गाचार्योऽज्ञोऽपि सुरेन्द्राद्यपेक्षया जडधीः, नाऽन्येषामपेक्षयेति हृदयम् । स्तोष्ये गुणोद्भावनेन कीर्तयिष्यामि । तं प्रथमं श्रीनाभेयं जिनम् । यत्तदोर्नित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः शक्रस्तवाद्यैः, सुष्ठु राजन्ते सुराः, तेषां लोकः स्वर्गस्तस्य नाथैः प्रभुभिः सुरलोकनाथैः, संस्तुतः सम्यग् नुतः । [अथवा] सुरश्चाऽसौ लोकश्च सुरलोको देवसमूहस्तस्य नाथैरिन्द्रैः । किंभूतैस्तैः ? सकलं सम्पूर्णं यद् वाङ्मयं शास्त्रजातं तस्य तत्त्वं रहस्यम्, तस्य बोधाद् ज्ञानात् परिच्छेदाद्, उद्भूता उत्पन्ना या बुद्धिः प्रज्ञा, तया पटुभिः कुशलैः । स्तोत्रैः किंभूतैः ? जगतां भूर्भुवः[स्वः]स्वरूपाणां I Page #5 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० २७ त्रितयस्य चित्तं हरन्तीति तथा, तैः । उदारैर्महाथैः ॥ अत्राऽऽद्यवृत्तेऽतिशयाः, यथा-उद्योतकमिति पूजातिशयः । दलितपापतमोवितानमिति अपयापगमातिशयः, आलम्बनमिति ज्ञान-वचनातिशयौ, यतो ज्ञानी सद्वाक्यश्च जनाधारो भवति ॥ काव्यद्वयस्मरणाद् विपत्प्रलयो भवति, हेमश्रावकवत् ॥१-२॥ इति (अथ) कविरात्मौद्धत्यं परिजिहीर्षुराहबुद्धया विनाऽपि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ बुद्ध्या० । हे विबुधार्चितपादपीठ ! हे दैवतव्रातपूजितपदासन ! बुद्ध्या विनाऽप्यहं मानतुङ्गाचार्यः स्तोत्रं(स्तोतुं) समुद्यतमतिः स्तवाय कृतमतिव्यापारो वर्ते । अत एव विगतत्रपोऽशक्यवस्तुनि प्रवर्तनान्निर्लज्जः । दृष्टान्तमाह- बालं शिशुं विहाय मुक्त्वा कोऽन्योऽपरो जनः सचेतनो जलसंस्थितं नीरकुण्डमध्यप्रतिबिम्बितम् इन्दुबिम्बं चन्द्रमण्डलं ग्रहीतुं सहसा तत्कालमिच्छत्यभिलषति ?। बालस्तद्ग्रहणाग्रह[ग्रहि]लो भवति, नाऽपरः, अहमपि बालरूपो ज्ञेयः ॥३॥ अथ जिनेन्द्रस्तुतावन्येषां दुःकरतां दर्शयन्नाहवक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ?। कल्पान्तकालपवनोद्धतनक्रचक्र, ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ वक्तु० । हे गुणसमुद्र ! स्थैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते तव शशाङ्ककान्तान् निर्मला (निर्मलकलाभृत्) कमनीयान् शान्ततादीन् गुणान् वक्तुं जल्पितुं क्षमः समर्थः । किंभूतोऽपि ? प्रतिभया सुरगुरुप्रतिमोऽपि वाचस्पतिसमोऽपि । अत्र दृष्टान्तः-वाऽथवा अम्बुनिधि कस्तरणकलाकुशलो नरो भुजाभ्यां तरीतुं प्राप्तुमलंमशक्तः (प्राप्तुमलं शक्तः) ? अपि तु न कश्चिदित्यर्थः । किंभूतमम्बुनिधिम् ? कल्पान्तकालस्य पवनेनोद्धतानि ऊर्ध्वं चलितानि नक्रचक्राणि Page #6 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ यादो[व]न्दानि यत्रेति समासः । यथा युगान्तक्षुब्धाब्धितरणं दुःशकं तयाऽर्हत्कीर्तनं ग(गी)र्पतेरपि दुर्घटम्, तत्राऽहं प्रवृत्तः...... मन्त्रः । सुमतिश्राद्धकथा ज्ञेया ॥४॥ स्तवकरणप्रवृत्तौ क(का)रणमाहसोऽहं तथाऽपि तव भक्तिवशान्मुनीश !, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र, ___ नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ सोहं० । हे मुनीश ! सकलयोगीश ! तथाऽपि तव स्तोत्रकरणासामर्थ्य सत्यपि सोऽहं क्षीरकण्ठप्रज्ञोऽपि स्तवारम्भे विगतशक्तिरपि क्षीणबलोऽपि । डमरुकमणिन्यायेनोभयत्राऽपि तवप्रयोगः । तव भगवतो (भवतो) भक्तिवशात् सेवाग्रहात् तव स्तवं स्तुतिं कर्तुं विधातुं प्रवृत्तः कृतोद्यमो जातः । अत्रोपमानम्मृगो हिरणः (हरिणः) आत्मवीर्यं निजबलमविचार्यमविचिन्त्य निजशिशोः स्वीयबालस्य प्रीत्या प्रेम्णा परिपालनार्थं परिरक्षणाय मृगेन्द्र सिंहं किं नाऽभ्येति किं न युद्धायाऽभिमुखो व्रजति ? अपि तु व्रजत्येव ॥५॥ अथ कविरसामर्थ्येऽपि वाचाटताहेतुमाहअल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति, तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ अल्पश्रुतं० । हे विश्वविश्रुत ! त्वद्भक्तिरेव त्वच्छुश्रूषैव बलाद् हठाद् मां मानतुङ्गाचार्यं मुखरीकुरुते अबद्धमुखीकरोति, वाचालं विधत्ते इत्यर्थः । मां किंभूतम् ? अल्पानि स्तोकानि शास्त्राणि यस्येति विग्रहः । अत एव तं श्रुतवतां दृष्टशास्त्राणां विदुषां परिहार(परिहास)धाम हास्यास्पदम् । अत्र दृष्टान्तदृढता'किल' इति सत्ये, यत् कोकिलः कलकलौ(-कण्ठो) मधौ वसन्ते मधुरौ(मधुरं) मृदुकण्ठं विरोति (विरौति) कूजति, तदहं मन्ये चारुचूतकलिकानां निकरः, स चासावेकहेतुश्चेति कर्मधारयः । यथाऽम्रमञ्जरीकृत-भोजनः पुंस्कोकिलो मधुरस्वरो भुवि मनोहरः स्यात्, तथाऽहं स्तोकग्रन्थोऽपि त्वद्भक्त्या स्तवं कुर्वाणः प्रवीणश्रेणौ Page #7 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० लब्धवर्णो भावीति वृत्तभावार्थः ॥६॥ हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु । सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्सं० । हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन भवद्गुणोत्कीर्तनेन शरीरभाजां प्राणिनां भवसन्ततिसन्निबद्धं जन्मकोटिसमर्जितं पापमष्टविधं कर्म क्षणाद् घटिकाषष्टांशेन स्तोककालाद् वा क्षयमुपैति निर्माशमुपयाति, शरीरभाजां जीवानाम् । अमुमेवार्थमुपमिमीते- पापे (पापं) किमिव ? अन्धकारमिव । यथा शार्वरं कृष्णपक्षि(-पक्ष-)रात्रि तिमिरं सूर्यांशुभिन्नं सहस्रकिर(-कर-) रोचिविदारितमाशु शीघ्रं क्षयं गच्छति यतः । किंभूतमन्धकारम् ? आक्रान्तलोकं व्याप्तविश्वम्, अलिनीलं मधुकरकुलकृष्णम्, अशेषं सकलम्, न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । राजकुले विवादादिषु स्मर्यते । [सु] धनस्येव जयो भवति ॥७॥ स्तवारम्भसामर्थ्य द्रढयन्नाहमत्वेति नाथ ! तव संस्तवनं मयेद मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ [मत्वे०] । हे नाथ ! पूर्वोक्तयुक्त्या स्तवनकरणं दुःकरं सर्वपापहरं चेति मत्वाऽवबुध्य मया भक्तिवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं प्रत्यक्षं भण्यमानं संस्तवनं स्तोत्रम्, कर्तुमिति शेषः, आरभ्यते करणायोद्यम्यते । इदं स्तवनं मत्कृतमपि तव प्रभावात् भवतोऽनुभावात् सतां सज्जनानां चेतो हरिष्यति मनो हरिष्यति, न तु दुर्जनानाम् । ननु [इति] निश्चये, उदबिन्दुरिच्छटा नलिनीदलेषु कमलिनीपत्रेषु मुक्ताफलद्युतिं मौक्तिकच्छायामुपैति उपागच्छति । अत्र 'उदस्योदः' (पाणि० ६।३।५७) इति निपातः ॥८॥ Page #8 -------------------------------------------------------------------------- ________________ ३० अनुसन्धान ५२ अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाहआस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ आस्तां० । अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोषं निर्मूलितनिखिलदूषणं तव स्तवनं गुणोत्कीर्तनमास्तां तिष्ठतु दूरे । स्तवमहिमा महीयान् वर्तते । त्वत्संकथा त्वत्सम्बन्धिनी त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां लोकानां दुरितानि पापानि विघ्नानि वा हन्ति । औपम्यं यथा-सहस्रकिरणः सूर्यो दूरे तिष्ठतु, प्रभैव अरुणच्छायैव पद्माकरेषु सरस्सु जलजानि मुकुलरूपकमलानि विकाशभाञ्जि स्मेराणि कुरुते । यदा सूर्योदयात् पूर्वप्रवर्तनी(-वतिनी) प्रभातप्रभा पद्मविकाश(शि)नी स्यात्, तदा सूर्यस्य किमुच्यते ?। तथा भगवद्गुणोत्कीर्तनस्तवमाहात्म्यं न कश्चिद् वक्तुमलम् । जिन(नाथ?) नामग्रहणसंकथैव सर्वदुरिति(त)नाश(शि)नीति । सर्वरक्षाकारी मन्त्रो ज्ञेयः, केशवश्रेष्ठिवत् ॥९॥ अथ जिनस्तुति[सेवा]फलमाहनाऽत्यद्भुतं भुवनभूषणभूत ! नाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ नात्य० । हे भुवनभूषणभूत !, भूतशब्दोऽत्रोपमावाची, हे विश्वमण्डनसमान ! हे नाथ ! हे प्रभो ! भूतैविद्यमानैर्भुवि पृथिव्यां भवन्तं त्वामभिष्टुवन्तः स्तुवन्तो जना भवतस्तुल्या समा भवन्ति, एतन्नाऽत्यद्भुतं नाऽतिचित्रम् । अत्र व्यतिरेकमाह-ननु निश्चितम्, वाऽथवा, तेन स्वामिना किं कार्यं किं प्रयोजनम् ?, इह भवे जनमध्ये वा यः स्वामी आश्रितं सेवकं भूत्या ऋद्ध्या आत्मसमं निजतुल्यं न करोति न विधत्ते । अहमपि तीर्थङ्करं स्तुवन् तीर्थकृद्गोत्रार्जको भवितेति कवेराशयः ॥१०॥ Page #9 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० अथ जिनदर्शनफलमाह दृष्ट्वा भवन्तमनिमेषविलोकनीयं नाऽन्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दृष्ट्वा० । हे प्रसन्नरूपस्वरूप ! अनिमे [षे ]ण निर्निमेषेण विलोक्यते दृश्यत इत्यनिमेषविलोकनीयस्तम्, भवन्तं दृष्ट्वा वीक्ष्य जनस्य द्रष्टुर्भव्यस्य चक्षुर्नेत्रमन्यत्र देवान्तरे तोषं चित्तानन्दं नोपयाति उपैति । चक्षुरिति जातावेकवचनम् । अत्रोपमानम्- कः पुरुषो दुग्धसिन्धोः क्षीरसमुद्रस्य पयो दुग्धं जलं पीत्वा जलनिधेर्लवणाम्भोधेः क्षारं जलं कटुकं जलमशितुं स्वादितुं पातुमिच्छेत् ?, अपि तु न कश्चित् । दुग्धसिन्धोः पयः किंभूतम् ? शशिनः करास्तद्वद् द्युतिर्यस्येति तत् शशिकरद्युति चन्द्रकरद्युति चन्द्रकरनिर्मलम् । सर्वकर्मकरो मन्त्रः कपर्दिश्राद्धवत् कामधेनुसमागमात् ॥११॥ अय भ[ग]वद्रूपवर्णनमाह यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मातिस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां ३१ यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० । त्रिभुवनैकलकामभूत: (भूत) ! यैः परमाणुभिर्दलिकैर्निर्माणकर्मणा त्वं निर्मापितः कृतः । किंभूतैः ? शान्ता रागस्य रुचिः कान्तिर्येभ्यस्ते तथा, तैः । राग[स]हचरितश्च द्वेषपरिग्रहः । अथवा शान्तनामा नवमो रसस्तस्य रुचि: छाया येषु, तैः । खलु निश्चितम्, तेऽप्यणवस्तावन्त एव भगवद्रूपनिर्माणप्रमाणा एव प्रवर्तन्ते । यद् यस्मात् कारणात् पृथिव्यां भूपीठे ते तव समानं तुल्यमपरमन्यद् रूपं नाऽस्ति विद्यते । 'यैः परमाणुभिस्तेऽणवः' इति पौनरुक्त्यम् । तत्रेयं व्याख्या- औदारिकवर्गणायामभव्येभ्योऽन ऽनन्तगुणाणु - निष्पन्नाः स्कन्धा अनन्ताः सन्ति, तेषु स्कन्धेष्वणवः स्तोका एव जिनरूपपरमाणवः । अणुशब्दः स्तोकवाची, अथवा महाकविप्रयुक्तत्वाद् वा न पौनरुक्त्यम् । सारस्वतीविद्याऽस्त्यस्मिन् Page #10 -------------------------------------------------------------------------- ________________ ३२ अनुसन्धान ५२ वृत्ते। सुबुद्धिमन्त्रीशस्य कथा ज्ञेया ॥१२॥ अथ मुखवर्णनमाहवक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं० । अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते तव वक्त्रं वर्तते ? क्व निशाकरस्य चन्द्रस्य बिम्बं मण्डलं विद्यते । किंभूतं वक्त्रम् ? सुरनरोरु(र)गाणां नेत्राणि हर्तुं शीलमस्येति विग्रहः । उरगा भवनवासिनः । पुनः किंभूतम् ? निःशेषाणि कमलदर्पणचन्द्रादीनि सर्वाणि ज(नि)जितानि जगत्त्रयस्योपमानानि येन तत् । चन्द्रबिम्बं[किं] भूतम् ? कलङ्कमलिनम् । यच्च चन्द्रबिम्बं वासरे दिने पाण्डुपलाशकल्पं जीर्णपक्वपाण्डुरपर्णसवर्णं भवति । मुखस्य तेनोपमा कथं घटत इति वृत्तार्थः । विद्या रोगापहारिणी समस्तवृत्तेऽस्मिन् ॥१३॥ अथ गुणव्याप्तिमाह सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लड्ययन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥ सम्पू० । हे त्रिजगदीश्वर ! त्रिजगन्नाथ ! तव गुणास्त्रिभुवनं लङ्घयन्ति अतिक्रामन्ति । किंभूताः ? सम्पूर्णमण्डल[:]शशाङ्कः चन्द्र[स्त]स्य कलाकलापः करनिकरस्तद्वत् शुभ्रा धवलाः । ये गुणा एकमद्वितीयं नाथं संश्रिताः । कः पुरुषो यथेष्टं स्वेच्छया सञ्चरन्तः परिभ्रमन्तः (सञ्चरतः परिभ्रमतः) तान् गुणान् निवारयति निषेधयति ? अपि तु न कश्चित् । अस्मिन् वृत्ते द्वे विद्ये विषापहारिणी विद्या सर्वसमा(मी)हितदायिके वडासुश्रावकाकथास्ति सत्यकश्रेष्ठिनः कन्या डाहीकथा चाऽस्ति ॥१४॥ Page #11 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० ३३ अथ भगवन्नीरागतामाहचित्रं किमत्र यदि ते त्रिदशाङ्गनाभि र्नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ चित्रं कि० । हे सकलविकारनिकार ! यदि त्रिदशाङ्गनाभिर्मोहनचेष्टाभिर्देवीभिस्ते तव मनोऽन्तःकरणं मनागपि अल्पमात्रमपि विकारमार्ग न नीतं न प्रापितम्, अत्राऽस्मिन्नर्थे किं चित्रं किमाश्चर्यम् ?। अत्र दृष्टान्तमाह-कदाचित् कस्मिंश्चित् क्षणे चलिताचलेन कम्पितान्यपर्वतेन कल्पान्तकालमरुता प्रलयकालपवनेन मन्दरादिशिखरं मेरुशृङ्गं किं चलितं स्वस्थानात् किं धूतम् ? यतो युगान्तेऽपि सर्वपर्वतानां क्षोभो भवति, न सुमेरोः । तथा देवीभिरिन्द्रगोपीन्द्र(गोपेन्द्र)-रुद्रादयः क्षोभिताः, न जिनेन्द्र इति । मन्त्रविद्ये, मन्त्रस्मरणाद् धनधान्यादि भवति । विद्यास्मरणाद् बन्धमोक्षो भवति । प्रभावे सज्जन[गुणसेनसूरि]गुरुकथा ॥१५॥ अथ भगवतो दीपेनोपमानिरासमाहनिर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ निर्धूम० । हे त्रिभुवनभुवनैकदीप ! त्वमपरोऽपूर्वो दीपो वर्तसे । यतो दीपो धूमवान् सवर्तिस्तै[ले]नोद्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात् । त्वमपूर्वदीपः किंभूतः ? नितरां गते निर्गते धूमवर्ती यस्मादसौ निर्धूमवर्तिः । धूमो द्वेषो वृत्तिः (वर्तिः) कामदशाश्चेति । अपवर्जितस्त्यक्तस्तैलपूरो येन स, तैलपूरः स्नेहप्रकारः । अन्यच्च त्वं कृत्स्नं सम्पूर्णं पञ्चास्तिकायात्मकं जगत्त्रयं विश्वत्रयमिदं [प्रत्यक्षगतं] प्रकटीकरोषि केवलोद्योतेन प्रकाशयसि । अन्यत् त्वं जातु कदाचित् चलिताचलानां धूतगिरीणां मरुतां वातानां न गम्यो न वशः । [अथवा परीषहोपसर्गेषु चलिताचलानां कम्पितपृथ्वीकानां मरुतां Page #12 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ mm देवानां न गम्यो नाऽऽकलनीयः] । जगत्प्रकाशो जगद्विश्रुतः । अथ[वा] जगत् चरिष्णु[:] सर्वत्र प्रसारी [प्रकाशो ज्ञानालोको यस्य सः] । अत एवाऽपरोऽन्यो दीपस्त्वमिति । श्रीसम्पादिनी विद्याऽत्र वृत्ते ज्ञेया ॥१६॥ अथ सूर्येणो(णौ)पम्यनिरासमाहनाऽस्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाऽम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ नाऽस्तं कदा० । हे मुनीन्द्र ! मुमुक्षुप्रभो ! त्वं सूर्यातिशाय(यि) महिमाऽसि वर्तसे । सूर्यातिशायी (सूर्याद् अतिशायी) सविशेषो महिमा माहात्म्यं यस्य सः । यतो रविरस्तं प्रयाति, राहुणा परिभूयते, लक्षमात्रं विश्वं प्रकाशयति, मेघच्छन्नो निस्तेजाश्च स्यात् । त्वं त्वपूर्वं(वः) पूषा कदाचिद् रजन्यादौ नाऽस्तमुपयाति(सि) क्षयं न गच्छसि, केवली नक्तंदिवं सदाऽऽलोकः, न राहुगम्यः । राहुशब्देन कृष्णवर्णत्वाद् दुष्कृतं न तद्व्याप्तः । सहसा झटिति शीघ्रं युगपत् समकालं जगन्ति भुवनानि प्रकटीकरोषि स्पष्टयसि । न अम्भोधरोदरेण घनगर्भेण निरुद्धः छन्नो महाप्रभावो गुरुप्रतापो यस्य सः । अत्राऽम्भोधरशब्देन मति-श्रुतावधि-मनःपर्यय-केवलानामावरणानि गृह्यन्ते, पञ्चभिरेतैराव[र]णैर्न तिरोहितो ज्ञानोद्योतः, अत एव सहस्रकिरणादधिकमाहात्म्योऽसि । अस्मिन् वृत्ते परविद्याविच्छेदिनी विद्याऽस्ति, सङ्कर(सङ्गर?)राज्ञः कथा चाऽस्ति ॥१७।। अथो (अथ) विशेषादिन्दूपमां निरस्यन्नाह नित्योदयं दलितमोहमहान्धकारं ___ गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ नित्यो० । हे देववृन्दविद्यो(-वन्ध) ! ते तव मुखाब्जं वदनकमलमपूर्वं शशाङ्कबिम्बं नवेन्दुमण्डलं विभ्राजते भाति । किंभूतम् ? नित्योदयं शाश्वतशोभोल्लासम् । चन्द्रबिम्बं तु प्रातरस्तमेव । दलितं ध्वस्तं मोह एव महान्धकारं Page #13 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० ३५ येन [तत्] । चन्द्रबिम्बत्वऽल्पमेव (-बिम्बं त्वल्पान्धतमसनिरासे) न क्षमम् । राहुवदनस्य न गम्यम्, राहुसमदुर्वादिवादस्याऽगोचरम्(-रः) । वारिदानां न गम्यम्, मेघसमदुष्टाष्टकर्मणां न वश्यम्, तानि जन(जिन)मुखेक्षणात् क्षयं याति (यान्ति) । चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् । पुनः किंभूतम् ? अनल्पकान्ति गुरु[तर]द्युति । चन्द्रबिम्बं चाऽल्पप्रभम्, कृष्णपक्षे क्षीणतेजस्त्वात् । मुखं जगद् विश्वं विद्योतयत् । शशिबिम्बं भूखण्डप्रकाशेऽप्यसमर्थम् । अथ नित्यं सदा उद् उल्लासयन् (उल्लसत्) अयः शुभं भाग्यं यस्य तद् नित्योदयम् । अस्मिन् वृत्ते दोषनिर्नाशिनी विद्या । श्रीउदयनमन्त्रीशपुत्रआम्बडकथा ज्ञेया ॥१८॥ [किञ्च]किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ? युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारननैः ? ॥१९॥ किं० । हे नाथ ! शर्वरी[] रजनीषु शशिना चन्द्रेण किम् ?। अहिन दिने विवस्वता वा किं कार्यं भवति ? तमस्सु अन्धकारेषु युष्मन्मुखेन्दु-दलितेषु भवद्वदनचन्द्रविनाशितेषु सत्सु । अथ[वा] तमस्सु पातकेषु । अत्र दृष्टान्तःजीवलोके भूपीठे निष्पन्नशालिवनशालिनि सति जलभारननैः सलिलभारनतैर्जलधरैर्घनैः कियत् कालं (कार्य) स्यात् ?, न किमपीत्यर्थः । निष्पन्नैः शालिवनै[:] शालि(ल)ते इत्येवंशीलः, तस्मिन् । धान्ये निष्पन्ने मेघाः केवलक्लेशकर्दमशीतहेतुत्वान्निष्फला एव, यथा(तथा) त्वन्मुखेन्दौ ध्वस्तदुरिततिमिरे शैत्यसन्तापपीडाकारित्वाच्चन्द्रसूर्याभ्यां न कोऽप्यर्थः । अस्मिन् वृत्तेऽशिवोपशमनी विद्या । लक्ष्मणकथा चाऽस्ति ॥१९॥ अथ ज्ञानद्वारेणाऽन्यदेवान् क्षिपतिज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ Page #14 -------------------------------------------------------------------------- ________________ ३६ अनुसन्धान ५२ ज्ञानं० । हे लोकालो[क]प्रकाशज्ञान ! यथा येन प्रकाश (प्रकारेण) कृता[वकाशं] विहितप्रकाशं ज्ञानं सम्यक् त्वयि विभाति, तथा तेन प्रकारेण हरिहरादिषु विष्णुरुद्रादिषु नायकेषु स्वस्वमतपितिषु(-पतिषु) एवंविधं ज्ञानं न तेषु । उपमामाह-स्फुरन्मणिषु भास्वद्वैडूर्यादिरत्नेषु तेजो यथा महत्त्वं गौरवं याति प्राप्नोति तु पुनः एवं तद्वत् किरणाकुलेऽपि काचशकले तेजो न महत्त्वं गच्छतीति । अस्मिन् वृत्ते सूरिमन्त्रः, वक्ष्यमाणवृत्तषट्केषु सूरिमन्त्रो ज्ञेयः । श्रीविजयसेनसूरिकथा च ॥२०॥ अथ निन्दास्तुति[मिश्र]माहमन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नाऽन्यः । कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥ मन्ये० । हे नाथ ! हरिहराद[य] । एव दृष्टा विलोकिता वरं प्रधानमित्यर्थः हं (-मित्यह) मन्ये । सुरेषु दृष्टेषु हृदयं चित्तं त्वयि भवद्विषये तोषां (तोषं) प्रमोदमेति आयाति । यतस्तेहिं (-तैर्हि) तव मुद्राऽपि न ज्ञाता, ज्ञानं तावद् दूरेऽस्तु । अथ भवतां(ता) वीक्षितेन दृष्टेन किं कार्य(य) येनाऽर्हद्वीक्षणलक्षणेन हेतुनाऽन्यस्त्वदपरः कश्चिद् देवो भवान्तरेण (भवान्तरेऽपि) अन्यजन्मन्यपि भुवि लोके मनो न हरति । अस्मिन् वृत्ते श्रीजीवदेवसूरिकथा ॥२१॥ किञ्चस्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नाऽन्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ स्त्रीणां० । स्त्रीणां नारीणां शतानि बहुवचनत्वात् कोटीकोटयः शतशः कोटि[कोटि]सङ्ख्यान् पुत्रान् जनयन्ति प्रस(सु)वते । तासु मध्येऽन्याऽपरा जननी माता त्वदुपमं भवत्समं सुतं नन्दनं न प्रसूताः(ता) नाऽजीजनत् । त्वां Page #15 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० ३७ पुत्रं मरुदेव्येव प्रसूता (प्रासूत) । अत्रोपमा- सर्वा दिशोऽष्टौ काष्ठा भानि तारकाणि दधति धारयति (-न्ति), [तथाऽपि] प्राच्येव पूर्वैव दिक् स्फुरदंशुजालं चञ्चत्करकलापं सहस्ररश्मि सूर्यं जनयन्ति (-यति) प्रसूते) । यथा ऐन्द्री दिक् सूरोदयहेतुः (सूर्योदये हेतुः), तथा तीर्थकृज्जन्मनि मरुदेव्यादयो हेतुरिति वृत्तार्थः । मन्त्रः प्राक्तन एव । प्रभावे श्रीआर्यखप(पु)टाचार्याणां कथा ॥२२॥ परमपुंस्त्वेन स्तुतिमाहत्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ त्वामा० । हे मुनीन्द्र ! ज्ञानिनस्त्वां परमं पुमांसं पुरुषमामनन्ति भणन्ति । किंभूतम् ? अमलं सकलरागद्वेषमलरहितम् । आदित्यस्येव वर्णः कान्तिर्यस्य तमादित्यवर्णम् । तमसो दुरितस्य परस्तात् । मुनयः सम्यगन्तःकरणशुद्ध्या त्वामेव, एवशब्दो निश्चये, उपलभ्य प्राप्य मृत्युं मरणं जयन्ति स्फेटयन्ति । अत्र मृत्यु(त्यु-)जया रक्षाऽप्यस्ति । अन्यः (अन्यच्च) शिवपदस्य मोक्षस्थानस्य [अन्यः] त्वत्तोऽपरः शिव[:] प्रशस्तो निरुपद्रवो वा पन्था मार्गो नाऽस्ति । मुक्तिकारणं त्वमेव । [अत्र] आर्यखप(पु)टसूरिकथा ॥२३।। अथ सर्वदेवानां नाम्ना जिनं स्तौतित्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२८॥ त्वाम० । हे सर्वदर्शन (सर्वदर्शिन्) ! सन्तो विचक्षणा यतय एवंविधं प्रवदन्ति । किंविशिष्टम् ? न व्येति न चयापचयं गच्छतीत्यव्ययः, तम् । विभुं व(वि) भवति कर्मोन्मूलने समर्थो भवतीति विभुम् । अध्यात्म(त्मि)कैरपि न चिन्तितुं शक्य[:], तमचिन्त्यम् । गुणानां न सङ्ख्या इयत्ता यस्य] तमसङ्ख्यम् । आदौ भव आद्यः, लोकव्यवहारसृष्टिहेतुत्वाच्च(त्वात्), [तम्] । अथवा Page #16 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ चतुर्विंशतिजिनेन्द्राणामाद्यं वा । बंहति अनन्तानन्देन वर्धत इति ब्रह्मा, तम् । सकलसुरेष्वीशितं(तुं) शीलमस्य तमीश्वरम् । अनन्तज्ञानदर्शनयोगादनन्तम् । अनङ्गस्य कामस्य केतुरिव, तम् । यथा केतुरुदितो जगत्क्षयं करोति, तथा भगवान् कन्दर्पस्य क्षये हेतुः । योगिनां चतुर्ज्ञानिनामीश्वरं नाथ[म्] । विदितोऽवगतः सम्यग्ज्ञानदर्शनचारित्ररूपो योगो येन । अनेकं ज्ञानेन सर्वगतत्वात्, अथवाऽनेकं गुणपर्यायापेक्षया, ऋषभादिव्यक्तिभेदाद् वा । एकमद्वितीयम्, एक (एकं) जीवद्रव्यापेक्षया । ज्ञानं तदेव स्वरूपं यस्य तं ज्ञानस्वरूपं चिद्रूपं वा । न मला अष्टादश दोषा यस्य तममलम् । अथैतानि पञ्चदश विशेषणानि परदर्शिर्षु (परदर्शनिषु) तत्तद्देवाभिधानत्वेन प्रसिद्धानीति ॥२४॥ किञ्चबुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ बुद्ध० । हे विबुधार्चित ! शक्रमहित ! बुद्धः सुगतस्त्वमेव । कस्मात् ? पदार्थेषु बुद्धिबोधाद् मतिप्रकाशात् । अथवा विबुधा विशिष्टपण्डिता गणधरास्तैरर्चितस्तीर्थकरस्तस्य बुद्धिः केवलज्ञानम्, तया बोधो यस्य, तस्मात् । त्वमेव बुद्धो भवसि । हे देव ! शं सुखं करोतीति शङ्करः, स यथार्थनामा त्वमसि, भुवनत्रयशङ्करत्वात् त्रिलोकसुखकारित्वात् । स शङ्करो रुद्रः कपाली नग्नो भैरवः संहारकृन्न शङ्करः । हे धीर ! दध(धा)तीति धा[ता] स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूप[नि]योगस्य विधानात् । हे भगवन् ! व्यक्तं प्रकटं पुरुषोत्तमस्त्वमेवाऽसि । अस्मिन् वृत्ते श्रीशान्तिसूरिकथा ज्ञेया । मन्त्रः प्राक्तन एव ॥२५॥ अथ पुनर्जिनं नमन्नाहतुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ तुभ्यं नम० । हे नाथ ! तुभ्यं भवते नमः नमस्कारोऽस्तु । नतौ Page #17 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० नमस्शब्दोऽव्ययः । किंभूताय ? त्रिभुवनार्तिहराय विश्वत्रयपीडानाशनाय । हे स्वामिन् ! तुभ्यं नमोऽस्तु, क्षितितलस्य भूपीठस्याऽमलभूषणाय । अथ[वा] क्षिति[:] पृथ्वी, तलं पातालम्, अमलं स्वर्ग:, तेषां त्रयाणां लोकानां भूषणाय । तुभ्यं नमोऽस्तु, त्रिजगतस्त्रैलोक्यस्य परमेश्वराय प्रकृष्टनाथाय । हे जिन ! तुभ्यं नमोऽस्तु, भवोदधिशोषणाय संसारसागरसन्तापनाय । अस्मिन् वृत्ते लक्ष्मीदायको मन्त्रोऽस्ति । चनिकश्रेष्ठिकथा ज्ञेया माहात्म्ये ॥२६॥ पुनर्युक्त्या गुणान् स्तौति को विस्मयोऽत्र यदि नाम गुणैरशेषै स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ ३९ को विस्म० । हे मुनीश ! यदीत्यङ्गीकारे, नामेत्यामन्त्रणे । हे सकर्णा ! अस्माभिरङ्गीकृतोऽयमर्थ:, [निरवकाशतया ] सर्वाङ्गव्यापकतया पुरुषान्तरेऽनवस्थानतया, अशेषैः सर्वैर्गुणैस्त्वं संश्रितोऽत्रार्थे को विस्मयः ? । त्वं दोषैः स्वप्नान्तरेऽपि कदाचिदपि नेक्षितोऽसि । दोषैः किंभूतैः ? उपात्तैर्गृहीतैः प्राप्तैर्विविधैर्नानारूपैराश्रयैर्जात उत्पन्नो गर्वो येषां तैः । अस्मिन् वृत्ते मन्त्रः क्षुद्रोपद्रव-नाशकारी वाञ्छितलाभकरश्च, प्रभावे श्रीशाल (लि) वाहनभूपस्य कथा चाऽस्ति ॥२७॥ अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाहउच्चैरशोकतरुसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ उच्चै० । हे सेवकजनकल्पवृक्ष[सदृक्ष ] ! भवतस्तव रूपं वपुर्नितान्तमत्यर्थमाभाति शोभते । किंभूतम् ? उच्चैरतिशयेन जिनदेहाद् द्वादशगुणोच्चोऽशोकतरुः कि(क)ङ्केल्लिवृक्षस्तं संश्रितम् । [उद्] उल्लसिता मयूखाः किरणा यस्य यस्माद् वा, तत् । अमलं स्वेदपङ्करहितत्वान्निर्मलम् । किमिवाऽऽभाति ? रिवे(रवे)र्बिम्बमिव । यथा रवेर्बिम्बं पयोधरपार्श्ववर्ति मेघसमीपस्थं भाति । Page #18 -------------------------------------------------------------------------- ________________ अनुसन्धान ५२ तदपि किंभूतम् ? स्पष्टा[:] प्रकटा उल्लसन्त उद्गच्छन्तः यस्य [यस्माद् वा] तत् अस्ततमोवितानं क्षिप्तान्धकारप्रकार(-प्रकरम्)। सूरमण्डलस्वरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यम् ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं ___तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ सिंहा० । हे तीर्थपते ! मणिमयूखशिखाविचित्रे रत्नकान्तिचूलाचारुणि हैमे सिंहासने कनकावदातं हेमगौरं तव वपुर्देहं विभ्राजते भाति । किमिव ? सहस्ररश्मेबिम्बमिव । यथा सूरमण्डलं तुङ्गोदयादिशिरसि उन्नतपूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति आकाशे विलसन्तो द्योतमाना येऽशवः कराः, तेषां लतावितानं [मालाविस्तारो] यस्य [यस्माद् वा], तद् । अत्रांऽशुवृन्दसमा मणिमयूखमाला, पूर्वादिशिखरसमानं सिंहासनम्, रविबिम्बोपमानं वपुरिति समता । यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्णं वर्ण्यते ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ कुन्दा० । हे पारगत ! कलधौतकान्तं चामीकररुचिरं तव वपुर्देहं विभ्राजते । किंभूतम् ? कुन्दवदवदाताभ्यां चलाभ्यां चामराभ्यां चार्वी मनोज्ञा शोभा यस्य, तत् । [किमिव ?] सुरगिरेरुच्चैस्तटमिव शिखरमिव । यथा शातकौम्भं सौवर्णम्, उच्चैः उच्चं सुरगिरेमरोस्तटं प्रस्थं भाति । तदपि तटं उद्यन् उद्गच्छन् शशाङ्कश्चन्द्रवत् शुचिर्धवला निर्झरस्य वारिधारा जलवेणी यत्र [यस्माद् वा], तत् । अत्र मेरुतटसमं श्रीनाभेयदेहम्, निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । Page #19 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ छत्र॰ हे पवित्रचरित्र ! उच्चैरूर्ध्वं मूर्ध्नि निविष्टं तव छत्रत्रयमातपत्रत्रितयं विभाति । किंभूतम् ? स्थगित: छादितो भानोः करप्रतापो येन । पुनः किंभूतम् ? मुक्तामा(फ)लानां प्रकरस्य समूहस्य जालेन [ रचना ] विशेषेण [ विवृद्धा ] वृद्धिं गता शोभा यस्य तत् । त्रिजगतः परमेश्वरत्वं महाधिपत्यं प्रख्यापयत् कथयत् । अस्मिन् वृत्ते विद्यादेयवाक्या व्याख्याने, सर्वकार्यसिद्धिकरी, सङ्ग्रामजयदायिकाऽस्ति । गोपालक्षत्रियस्य कथा ज्ञेया ||३१|| अथाऽतिशयद्वारेण जिनं स्तौतिउन्निद्रहेमनवपङ्कजपुञ्जकान्ति पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥ ३२॥ ४१ उन्निद्र० । हे जिनेन्द्र ! तव पादौ चरणौ यत्र भूमौ पदानि गमनेऽवस्थानरूपाणि धत्तः - न्यस्यतः, विबुधास्तत्र धरा पीठे पद्मानि कमलानि परिकल्पयन्ति रचयन्ति । किंभूतौ चरणौ ? उन्निद्राणि हेम्नः स्वर्णस्य नवानि नूतनानि नवसङ्ख्या(का) नि वा [ पङ्कजानि ] कमलानि तेषां पुञ्जस्तस्य कान्तिर्द्युतिः, पर्युल्लसन्ती समन्तादुच्छलन्ती या नखानां मयूखशिखा करण(किरण) चूला, उन्निद्र हेमनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखया वाऽभिरामौ रुचिरौ । कोऽर्थः ? एका नवस्वर्णकान्तिः पीता, अपरा दर्पणनिभा नखप्रभा चरणौ वर्णविचित्रौ चक्रतुरिति ॥३२॥ अथ संक्षिपति इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथाऽपरस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥३३॥ इत्थं॰ । हे जिनेन्द्र ! इत्थं पूर्वोक्तप्रकारेण यथा यद्वद् धर्मोपदेशनविधौ Page #20 -------------------------------------------------------------------------- ________________ ४२ धर्मव्याख्यानक्षणे तव विभूतिरतिशयरूपा समृद्धिरभूत् यथा तद्वदपरस्य ब्रह्मादिसुरस्य नाऽऽसीत् । अत्र दृष्टान्त: - दिनकृतः सूर्यस्य प्रहतान्धकारा ध्वस्तध्वान्ता यादृग् यादृशी प्रभा वर्तते, विकाशिनोऽपि उदितस्याऽपि ग्रह[ग] णस्य भौमादेस्तादृक् तादृशी प्रभा कुत[:] कस्माद् भवति । अस्मिन् वृत्ते सर्वसम्पत्करो मन्त्रोऽस्ति । महिमनि जिणहाकस्य कथा ज्ञेया ||३३|| अथ गजभयहरं तीर्थकरं स्तौति श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं अनुसन्धान ५२ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ श्च्यो० । हे गजपतिगते ! त्वदाश्रितानां त्वच्चरणशरणस्थानां जनानामापतन्तमागच्छन्तमिभं दुष्टगजं दृष्ट्वा भयं न भवति । किंभूतम् ? श्च्योतन् क्षरन् यो मदो मदवारि, तेन आविला व्याप्ताः विलोलं चञ्चलं कपोलमूलम्, तस्मिन् मत्ताः क्षीबाः सन्तो भ्रमन्तो भ्रमणशीला ये भ्रमरा:, तेषां नादेन झङ्कारध्वनिना विवृद्धो वृद्धिं गतः कोपः क्रोधो यस्य तम् । ए (ऐ) रावताभं महाकायत्वादैरावणसममुद्धतमविनीतं दुर्दान्तमिति । एषु वृत्तेषु वक्षमाणतत्तीर्थकृद्भीहर (तत्तद्भीहर) -वृत्तवर्णा एव मन्त्राः पुनः [पुनः] स्मर्तव्या:, अतो नाऽपरमन्त्र - निवेदनम् । प्रभावे सोमराजा(राज) कथा ज्ञेया ||३४|| अथ सिंहभयं क्षिपति भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ भिन्ने० । हे पुरुषसिंह ! हरिणाधिपोऽपि सिंहोऽपि क्रमगतं फालप्राप्तं ते तव क्रमयुगाचलसंश्रितं चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति न ग्रहणाय उद्यतते न हन्तुमुद्धावति । किंभूतो हरिणाधिपः ? भिन्नाभ्यां विदारिताभ्यामिभकुम्भाभ्यां गलता पतता उज्ज्वलेन रक्तश्वेतवर्णेन शोणिताक्तेन रुधिरव्याप्तेन Page #21 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० मुक्ताफलप्रकरेण मौक्तिकसमूहेन भूषितो मण्डितो भूमिभागो येन सः । बद्धाः क्रमाः पादविक्षेपा यस्य सः । देवराजस्य कथा ज्ञेया ॥३५॥ अथ दावानलभयं निरस्यति कल्पान्तकालपवनोद्धतवह्निकल्पं ___दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ कल्पां०। हे कर्मक्षयकशानो! त्वन्नामकीर्तनजलं त्वदभिधानस्तवननीरमशेषं सकलं दावानलं वनवह्निः (-वह्नि) शमयति विनाशयति । किंभूतं दावानलम् ? कल्पान्तकालपवनेन युगान्तसमयवातेन उद्धत उत्कटो यो वह्निरग्निस्तेन कल्पम् । ज्वलितं दीप्तम् । उज्ज्वलं ज्वालारक्तम् । उत्स्फुल्लिङ्गमुल्लसव(द्व)ह्निकणम् । विश्वं जिघत्सुमिव जगज्जिग्रसिषुमिव । सम्मुखमापतन्तमभिमुखमायान्तम् । त्वन्नामस्मरणनीरं दावानलं स्फोटयतीत्यर्थः । प्रभावे लक्ष्मीधरकथा ॥३६।। अथ भुजङ्गभयं दलयन्नाहरक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ रक्ते० । हे नागपतिसेव्य ! पुंसो हृदि त्वन्नामनागदमनी त्वन्नाममेव (त्वन्नामैव) नागदमनी ओषधीविशेषो जाङ्गुलीविद्या वा । स निरस्तशङ्को निर्भयः क्रमयुगेन निजपदद्वन्द्वेन फणिनं सर्पमाक्रमति घर्षति रज्जुवत् स्पृशतीति । किंभूतम् ? रक्तेक्षणं ताम्रनेत्रम् । समदकोकिलकण्ठनीलं मत्तपिकगलकालम् । क्रोधोद्धतं कोपोत्कटम् । उत्फणमूर्वीकृतफटम् । आपतन्तं सम्मुखं धावन्तम् । प्रभावे महेभ्यश्रेष्ठिनः कथा ॥३७॥ अथ रणान्तकं संहरन्नाहवल्गत्तुरङ्गगजगर्जितभीमनाद माजौ बलं बलवतामपि भूपतीनाम् । Page #22 -------------------------------------------------------------------------- ________________ ४४ अनुसन्धान ५२ उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाऽऽशु भिदामुपैति ॥३८॥ वल्ग० । हे देवाधिदेव ! त्वत्कीर्तनात् त्वन्नामग्रहणादाजौ सङ्ग्रामे बलवतामपि भूपतीनां राज्ञां बलं सैन्यं भिदामुपैति स्फुटनमायाति । किंभूतम् ? वल्गतां धावतां तुरङ्गाणां गजानां च गर्जितानि भीमनादा यत्र तत् । [अथवा क्रियाविशेषणस्य] सङ्ग्रामस्य । किमिव ? तम इव । [यथा] उद्यदिवाकरमयूखशिखापविद्धमुद्गच्छत्सूरकरततिप्रेरितं सूर्यकरक्षिप्तं तमोऽन्धकारं याति प्रलयं प्रयाति, तद्वदित्यर्थः ॥३८॥ किञ्चकुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ कुन्ता० । हे जिनेश्वर ! त्वत्पादपङ्कजवनायिणस्त्वत्पदपद्मखण्डभाजो जना युद्धे रणे जयं विजयं लभन्ते प्राप्नुवन्ति । किंभूते युद्धे ? कुन्ताग्रैर्भल्लाभिन्नानां पाटि[ता]नां गजानां शोणितं रक्तमेव वारिवाहो जलप्रवाहः, तस्मिन् वेगावतारात् शीघ्रप्रवेशात् तरणे प्लवने आकुलैः (आतुरैः) व्याकुलैर्योधैर्भटीमम्, तस्मिन् । किंभूता जनाः ? विजितः पराजितो दुर्जयोऽजयो जेयपक्षो जेतव्यगणो यैस्ते इति। रणकेतुराज्ञः कथा ॥३९॥ अथ जलापदं शमयन्नाहअम्भोनिधौ क्षुभितभीषणनक्रचक्र पाठीनपीठभयदोल्बणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अम्भो० । [हे भववाधिपोत !] अम्भोनिधौ समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासमाकस्मिकं भयं विहाय त्यक्त्वा व्रजन्ति क्षेमेण स्वस्थानं यान्ति । किंभूते ? क्षुभितानि क्षोभं गतानि भीषणानि रौद्राणि नक्रचक्राणि च पाठीनाश्च पीठाश्च, भयदो भीकृत्, उल्बणः प्रकटो वाडवाग्निश्च Page #23 -------------------------------------------------------------------------- ________________ सप्टेम्बर २०१० यत्र स तथा, तस्मिन् । किंभूता जना: ? रङ्गत्तरङ्गशिखरस्थितयानि(न) पात्रा उच्छलत्कल्लोलाग्रवर्तवहनाः (वर्तिवहनाः) । नक्रचक्रं दुष्टजलजन्तुवृन्दम् । पाठीनपीठौ मत्स्यभेदौ । धनावहकथा ज्ञेया ||४०|| अथ रोगभयं भिन्दन्नाह उद्भूतभीषणजलोदर भारभुग्नाः शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ उद्भूत० । हे कर्मव्याधिधन्वन्तरे ! मर्त्या नरा उद्भूतभीषणजलोदरभारभुग्ना उत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृताः, भग्ना वा पाठे मोटिताः । शोच्यां दशामुपगता दीनामवस्थां प्राप्ताः । च्युतजीविताशास्त्यक्तजीवितवाञ्छाः । एवंभूतास्त्वत्पादपङ्कजरजोमृतदिग्धदेहा भवच्चरणकमलरेणुसुधालिप्तवपुषः । मकरध्वज[तुल्य]रूपाः कामसममूर्तयः कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलबोधे (व्याधे)रुपशम इति । राजहंसकुमारस्य कथा ज्ञेया ॥ ४१॥ अथ बन्दिबन्धनभयं क्रन्दन्नाह - आपादकपठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः । ४५ सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ आपाद० । हे अप्रतिचक्राचितचरण ! आपादकण्ठ (-कण्ठं) पदं(पदगलं) यावद् उरुशृङ्खलवेष्टिताङ्गाः गुरुलोहदामव्याप्तवपुषः गाढं निबिडं बृहन्निगडकोटिनिघृष्टजङ्घा विकटाष्टीलाग्रकर्षितनलकिनीका मनुजा नराः, त्वन्नाममन्त्र(न्त्रम्)‘ॐ ऋषभाय नमः' इति पदमनिशं सदा जपन्तो ध्यायन्तः सद्यस्तत्कालं स्वयमात्मनैव विगतबन्धभयाः स्व (ध्वस्त) बन्धनशङ्का भवन्त (न्ति) जायन्त इति । एतस्य महिमा पूर्वं श्रीमानतुङ्गाचार्याणां निबिज (ड) [निगड]शृङ्खलजालभञ्जनादभूत्, तदनु रणपालादीनां बहूनामपि ॥४२॥ Page #24 -------------------------------------------------------------------------- ________________ 46 अनुसन्धान 52 अथाष्टभीनाशे[न] स्तवं संक्षिपन्नाहमत्तद्विपेन्द्र-मृगराज-दवानलाऽ-हि सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् / तस्याऽऽशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते // 43 // मत्त० / हे अमेयमहिमन् ! तस्य प्राणिनो भयं भीः आशु शीघ्रं [भियेव] भयेनेव नाशमुपयाति ध्वंस[मा]याति, यो मतिमान् सप्रसिद्धिः (सप्रज्ञः) पुमान् तावकं भवदीयमिमं प्रागुक्तस्वरूपं स्तवं स्तोत्रमधीते पठति / किंभूतं भयम् ? मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्धनं च तेभ्य उत्था उत्पत्तिर्यस्य [त]त् // 43 // [अथ स्तवप्रभावसर्वस्वमाह-] स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् / धत्ते जनो य इह कण्ठगतामजस्त्रं तं 'मानतुङ्ग'मवशा समुपैति लक्ष्मीः // 44 // स्तोत्रस्रजं० / हे जिनेन्द्र ! [केवलिपते !] इह जगत्यां यो जनोऽजस्रमनवरतं तव स्तोत्रं तवं(स्तवं) बहुपदसन्दर्भितत्वात् स्रगिव स्तोत्रस्रक् [तां] स्तोत्रमालां कण्ठगतां कण्ठपीठलुठ(ठि)तां करोति, [पठती]त्यर्थः / किंभूताम् ? भक्त्या भावपूर्वं मया श्रीमानतुङ्गसूरिणा गुणैः पूर्वोक्तैः [ज्ञानाद्यैः] निबद्धां रचितां, रुचिरा मनोज्ञा वर्णा आ(अ)काराद्या विचित्राणि यमकाऽनुप्रास-व्यङ्ग्यादिना विशेषेणाद्भुतानि पुष्पाणीव यस्या (यस्यां) ताम् / लक्ष्मीः श्रीः / तु मानतुझं साभिमानम् / अवशा तद्गतचित्ता / एतस्य वृत्तस्य वृत्तावर्थषट्कं प्ररूपितमस्ति, अत्रैक एवार्थो व्याख्यातोऽस्ति, शेषमर्थपञ्चकं स्वयमभ्यूह्यं तज्ज्ञैः / / इति श्रीभक्तामरस्तोत्रस्यावचूरिलिखिता वृत्तेरुपरि // छः // श्री छः // 376 // C/o. जैन उपाश्रय, कृष्णनगर, भावनगर-३६४००१