________________
अनुसन्धान ५२
mm
देवानां न गम्यो नाऽऽकलनीयः] । जगत्प्रकाशो जगद्विश्रुतः । अथ[वा] जगत् चरिष्णु[:] सर्वत्र प्रसारी [प्रकाशो ज्ञानालोको यस्य सः] । अत एवाऽपरोऽन्यो दीपस्त्वमिति । श्रीसम्पादिनी विद्याऽत्र वृत्ते ज्ञेया ॥१६॥ अथ सूर्येणो(णौ)पम्यनिरासमाहनाऽस्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाऽम्भोधरोदरनिरुद्धमहाप्रभावः
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ नाऽस्तं कदा० । हे मुनीन्द्र ! मुमुक्षुप्रभो ! त्वं सूर्यातिशाय(यि) महिमाऽसि वर्तसे । सूर्यातिशायी (सूर्याद् अतिशायी) सविशेषो महिमा माहात्म्यं यस्य सः । यतो रविरस्तं प्रयाति, राहुणा परिभूयते, लक्षमात्रं विश्वं प्रकाशयति, मेघच्छन्नो निस्तेजाश्च स्यात् । त्वं त्वपूर्वं(वः) पूषा कदाचिद् रजन्यादौ नाऽस्तमुपयाति(सि) क्षयं न गच्छसि, केवली नक्तंदिवं सदाऽऽलोकः, न राहुगम्यः । राहुशब्देन कृष्णवर्णत्वाद् दुष्कृतं न तद्व्याप्तः । सहसा झटिति शीघ्रं युगपत् समकालं जगन्ति भुवनानि प्रकटीकरोषि स्पष्टयसि । न अम्भोधरोदरेण घनगर्भेण निरुद्धः छन्नो महाप्रभावो गुरुप्रतापो यस्य सः । अत्राऽम्भोधरशब्देन मति-श्रुतावधि-मनःपर्यय-केवलानामावरणानि गृह्यन्ते, पञ्चभिरेतैराव[र]णैर्न तिरोहितो ज्ञानोद्योतः, अत एव सहस्रकिरणादधिकमाहात्म्योऽसि । अस्मिन् वृत्ते परविद्याविच्छेदिनी विद्याऽस्ति, सङ्कर(सङ्गर?)राज्ञः कथा चाऽस्ति ॥१७।। अथो (अथ) विशेषादिन्दूपमां निरस्यन्नाह
नित्योदयं दलितमोहमहान्धकारं
___ गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ नित्यो० । हे देववृन्दविद्यो(-वन्ध) ! ते तव मुखाब्जं वदनकमलमपूर्वं शशाङ्कबिम्बं नवेन्दुमण्डलं विभ्राजते भाति । किंभूतम् ? नित्योदयं शाश्वतशोभोल्लासम् । चन्द्रबिम्बं तु प्रातरस्तमेव । दलितं ध्वस्तं मोह एव महान्धकारं