________________
सप्टेम्बर २०१०
मुक्ताफलप्रकरजालविवृद्धशोभं
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥
छत्र॰ हे पवित्रचरित्र ! उच्चैरूर्ध्वं मूर्ध्नि निविष्टं तव छत्रत्रयमातपत्रत्रितयं विभाति । किंभूतम् ? स्थगित: छादितो भानोः करप्रतापो येन । पुनः किंभूतम् ? मुक्तामा(फ)लानां प्रकरस्य समूहस्य जालेन [ रचना ] विशेषेण [ विवृद्धा ] वृद्धिं गता शोभा यस्य तत् । त्रिजगतः परमेश्वरत्वं महाधिपत्यं प्रख्यापयत् कथयत् । अस्मिन् वृत्ते विद्यादेयवाक्या व्याख्याने, सर्वकार्यसिद्धिकरी, सङ्ग्रामजयदायिकाऽस्ति । गोपालक्षत्रियस्य कथा ज्ञेया ||३१||
अथाऽतिशयद्वारेण जिनं स्तौतिउन्निद्रहेमनवपङ्कजपुञ्जकान्ति
पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पद्मानि तत्र विबुधा: परिकल्पयन्ति ॥ ३२॥
४१
उन्निद्र० । हे जिनेन्द्र ! तव पादौ चरणौ यत्र भूमौ पदानि गमनेऽवस्थानरूपाणि धत्तः - न्यस्यतः, विबुधास्तत्र धरा पीठे पद्मानि कमलानि परिकल्पयन्ति रचयन्ति । किंभूतौ चरणौ ? उन्निद्राणि हेम्नः स्वर्णस्य नवानि नूतनानि नवसङ्ख्या(का) नि वा [ पङ्कजानि ] कमलानि तेषां पुञ्जस्तस्य कान्तिर्द्युतिः, पर्युल्लसन्ती समन्तादुच्छलन्ती या नखानां मयूखशिखा करण(किरण) चूला, उन्निद्र हेमनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखया वाऽभिरामौ रुचिरौ । कोऽर्थः ? एका नवस्वर्णकान्तिः पीता, अपरा दर्पणनिभा नखप्रभा चरणौ वर्णविचित्रौ चक्रतुरिति ॥३२॥ अथ संक्षिपति
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथाऽपरस्य ।
यादृक् प्रभा दिनकृतः प्रहतान्धकारा
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥३३॥ इत्थं॰ । हे जिनेन्द्र ! इत्थं पूर्वोक्तप्रकारेण यथा यद्वद् धर्मोपदेशनविधौ