Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ सप्टेम्बर २०१० ३७ पुत्रं मरुदेव्येव प्रसूता (प्रासूत) । अत्रोपमा- सर्वा दिशोऽष्टौ काष्ठा भानि तारकाणि दधति धारयति (-न्ति), [तथाऽपि] प्राच्येव पूर्वैव दिक् स्फुरदंशुजालं चञ्चत्करकलापं सहस्ररश्मि सूर्यं जनयन्ति (-यति) प्रसूते) । यथा ऐन्द्री दिक् सूरोदयहेतुः (सूर्योदये हेतुः), तथा तीर्थकृज्जन्मनि मरुदेव्यादयो हेतुरिति वृत्तार्थः । मन्त्रः प्राक्तन एव । प्रभावे श्रीआर्यखप(पु)टाचार्याणां कथा ॥२२॥ परमपुंस्त्वेन स्तुतिमाहत्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ त्वामा० । हे मुनीन्द्र ! ज्ञानिनस्त्वां परमं पुमांसं पुरुषमामनन्ति भणन्ति । किंभूतम् ? अमलं सकलरागद्वेषमलरहितम् । आदित्यस्येव वर्णः कान्तिर्यस्य तमादित्यवर्णम् । तमसो दुरितस्य परस्तात् । मुनयः सम्यगन्तःकरणशुद्ध्या त्वामेव, एवशब्दो निश्चये, उपलभ्य प्राप्य मृत्युं मरणं जयन्ति स्फेटयन्ति । अत्र मृत्यु(त्यु-)जया रक्षाऽप्यस्ति । अन्यः (अन्यच्च) शिवपदस्य मोक्षस्थानस्य [अन्यः] त्वत्तोऽपरः शिव[:] प्रशस्तो निरुपद्रवो वा पन्था मार्गो नाऽस्ति । मुक्तिकारणं त्वमेव । [अत्र] आर्यखप(पु)टसूरिकथा ॥२३।। अथ सर्वदेवानां नाम्ना जिनं स्तौतित्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२८॥ त्वाम० । हे सर्वदर्शन (सर्वदर्शिन्) ! सन्तो विचक्षणा यतय एवंविधं प्रवदन्ति । किंविशिष्टम् ? न व्येति न चयापचयं गच्छतीत्यव्ययः, तम् । विभुं व(वि) भवति कर्मोन्मूलने समर्थो भवतीति विभुम् । अध्यात्म(त्मि)कैरपि न चिन्तितुं शक्य[:], तमचिन्त्यम् । गुणानां न सङ्ख्या इयत्ता यस्य] तमसङ्ख्यम् । आदौ भव आद्यः, लोकव्यवहारसृष्टिहेतुत्वाच्च(त्वात्), [तम्] । अथवा

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24