Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
३५
येन [तत्] । चन्द्रबिम्बत्वऽल्पमेव (-बिम्बं त्वल्पान्धतमसनिरासे) न क्षमम् । राहुवदनस्य न गम्यम्, राहुसमदुर्वादिवादस्याऽगोचरम्(-रः) । वारिदानां न गम्यम्, मेघसमदुष्टाष्टकर्मणां न वश्यम्, तानि जन(जिन)मुखेक्षणात् क्षयं याति (यान्ति) । चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् । पुनः किंभूतम् ? अनल्पकान्ति गुरु[तर]द्युति । चन्द्रबिम्बं चाऽल्पप्रभम्, कृष्णपक्षे क्षीणतेजस्त्वात् । मुखं जगद् विश्वं विद्योतयत् । शशिबिम्बं भूखण्डप्रकाशेऽप्यसमर्थम् । अथ नित्यं सदा उद् उल्लासयन् (उल्लसत्) अयः शुभं भाग्यं यस्य तद् नित्योदयम् । अस्मिन् वृत्ते दोषनिर्नाशिनी विद्या । श्रीउदयनमन्त्रीशपुत्रआम्बडकथा ज्ञेया ॥१८॥ [किञ्च]किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ?
युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके
कार्यं कियज्जलधरैर्जलभारननैः ? ॥१९॥ किं० । हे नाथ ! शर्वरी[] रजनीषु शशिना चन्द्रेण किम् ?। अहिन दिने विवस्वता वा किं कार्यं भवति ? तमस्सु अन्धकारेषु युष्मन्मुखेन्दु-दलितेषु भवद्वदनचन्द्रविनाशितेषु सत्सु । अथ[वा] तमस्सु पातकेषु । अत्र दृष्टान्तःजीवलोके भूपीठे निष्पन्नशालिवनशालिनि सति जलभारननैः सलिलभारनतैर्जलधरैर्घनैः कियत् कालं (कार्य) स्यात् ?, न किमपीत्यर्थः । निष्पन्नैः शालिवनै[:] शालि(ल)ते इत्येवंशीलः, तस्मिन् । धान्ये निष्पन्ने मेघाः केवलक्लेशकर्दमशीतहेतुत्वान्निष्फला एव, यथा(तथा) त्वन्मुखेन्दौ ध्वस्तदुरिततिमिरे शैत्यसन्तापपीडाकारित्वाच्चन्द्रसूर्याभ्यां न कोऽप्यर्थः । अस्मिन् वृत्तेऽशिवोपशमनी विद्या । लक्ष्मणकथा चाऽस्ति ॥१९॥ अथ ज्ञानद्वारेणाऽन्यदेवान् क्षिपतिज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24