Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ ३६ अनुसन्धान ५२ ज्ञानं० । हे लोकालो[क]प्रकाशज्ञान ! यथा येन प्रकाश (प्रकारेण) कृता[वकाशं] विहितप्रकाशं ज्ञानं सम्यक् त्वयि विभाति, तथा तेन प्रकारेण हरिहरादिषु विष्णुरुद्रादिषु नायकेषु स्वस्वमतपितिषु(-पतिषु) एवंविधं ज्ञानं न तेषु । उपमामाह-स्फुरन्मणिषु भास्वद्वैडूर्यादिरत्नेषु तेजो यथा महत्त्वं गौरवं याति प्राप्नोति तु पुनः एवं तद्वत् किरणाकुलेऽपि काचशकले तेजो न महत्त्वं गच्छतीति । अस्मिन् वृत्ते सूरिमन्त्रः, वक्ष्यमाणवृत्तषट्केषु सूरिमन्त्रो ज्ञेयः । श्रीविजयसेनसूरिकथा च ॥२०॥ अथ निन्दास्तुति[मिश्र]माहमन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नाऽन्यः । कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥ मन्ये० । हे नाथ ! हरिहराद[य] । एव दृष्टा विलोकिता वरं प्रधानमित्यर्थः हं (-मित्यह) मन्ये । सुरेषु दृष्टेषु हृदयं चित्तं त्वयि भवद्विषये तोषां (तोषं) प्रमोदमेति आयाति । यतस्तेहिं (-तैर्हि) तव मुद्राऽपि न ज्ञाता, ज्ञानं तावद् दूरेऽस्तु । अथ भवतां(ता) वीक्षितेन दृष्टेन किं कार्य(य) येनाऽर्हद्वीक्षणलक्षणेन हेतुनाऽन्यस्त्वदपरः कश्चिद् देवो भवान्तरेण (भवान्तरेऽपि) अन्यजन्मन्यपि भुवि लोके मनो न हरति । अस्मिन् वृत्ते श्रीजीवदेवसूरिकथा ॥२१॥ किञ्चस्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नाऽन्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ स्त्रीणां० । स्त्रीणां नारीणां शतानि बहुवचनत्वात् कोटीकोटयः शतशः कोटि[कोटि]सङ्ख्यान् पुत्रान् जनयन्ति प्रस(सु)वते । तासु मध्येऽन्याऽपरा जननी माता त्वदुपमं भवत्समं सुतं नन्दनं न प्रसूताः(ता) नाऽजीजनत् । त्वां

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24