Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ अनुसन्धान ५२ चतुर्विंशतिजिनेन्द्राणामाद्यं वा । बंहति अनन्तानन्देन वर्धत इति ब्रह्मा, तम् । सकलसुरेष्वीशितं(तुं) शीलमस्य तमीश्वरम् । अनन्तज्ञानदर्शनयोगादनन्तम् । अनङ्गस्य कामस्य केतुरिव, तम् । यथा केतुरुदितो जगत्क्षयं करोति, तथा भगवान् कन्दर्पस्य क्षये हेतुः । योगिनां चतुर्ज्ञानिनामीश्वरं नाथ[म्] । विदितोऽवगतः सम्यग्ज्ञानदर्शनचारित्ररूपो योगो येन । अनेकं ज्ञानेन सर्वगतत्वात्, अथवाऽनेकं गुणपर्यायापेक्षया, ऋषभादिव्यक्तिभेदाद् वा । एकमद्वितीयम्, एक (एकं) जीवद्रव्यापेक्षया । ज्ञानं तदेव स्वरूपं यस्य तं ज्ञानस्वरूपं चिद्रूपं वा । न मला अष्टादश दोषा यस्य तममलम् । अथैतानि पञ्चदश विशेषणानि परदर्शिर्षु (परदर्शनिषु) तत्तद्देवाभिधानत्वेन प्रसिद्धानीति ॥२४॥ किञ्चबुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेविधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ बुद्ध० । हे विबुधार्चित ! शक्रमहित ! बुद्धः सुगतस्त्वमेव । कस्मात् ? पदार्थेषु बुद्धिबोधाद् मतिप्रकाशात् । अथवा विबुधा विशिष्टपण्डिता गणधरास्तैरर्चितस्तीर्थकरस्तस्य बुद्धिः केवलज्ञानम्, तया बोधो यस्य, तस्मात् । त्वमेव बुद्धो भवसि । हे देव ! शं सुखं करोतीति शङ्करः, स यथार्थनामा त्वमसि, भुवनत्रयशङ्करत्वात् त्रिलोकसुखकारित्वात् । स शङ्करो रुद्रः कपाली नग्नो भैरवः संहारकृन्न शङ्करः । हे धीर ! दध(धा)तीति धा[ता] स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूप[नि]योगस्य विधानात् । हे भगवन् ! व्यक्तं प्रकटं पुरुषोत्तमस्त्वमेवाऽसि । अस्मिन् वृत्ते श्रीशान्तिसूरिकथा ज्ञेया । मन्त्रः प्राक्तन एव ॥२५॥ अथ पुनर्जिनं नमन्नाहतुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ तुभ्यं नम० । हे नाथ ! तुभ्यं भवते नमः नमस्कारोऽस्तु । नतौ

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24