Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २०१०
३३
अथ भगवन्नीरागतामाहचित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
र्नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन
किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ चित्रं कि० । हे सकलविकारनिकार ! यदि त्रिदशाङ्गनाभिर्मोहनचेष्टाभिर्देवीभिस्ते तव मनोऽन्तःकरणं मनागपि अल्पमात्रमपि विकारमार्ग न नीतं न प्रापितम्, अत्राऽस्मिन्नर्थे किं चित्रं किमाश्चर्यम् ?। अत्र दृष्टान्तमाह-कदाचित् कस्मिंश्चित् क्षणे चलिताचलेन कम्पितान्यपर्वतेन कल्पान्तकालमरुता प्रलयकालपवनेन मन्दरादिशिखरं मेरुशृङ्गं किं चलितं स्वस्थानात् किं धूतम् ? यतो युगान्तेऽपि सर्वपर्वतानां क्षोभो भवति, न सुमेरोः । तथा देवीभिरिन्द्रगोपीन्द्र(गोपेन्द्र)-रुद्रादयः क्षोभिताः, न जिनेन्द्र इति । मन्त्रविद्ये, मन्त्रस्मरणाद् धनधान्यादि भवति । विद्यास्मरणाद् बन्धमोक्षो भवति । प्रभावे सज्जन[गुणसेनसूरि]गुरुकथा ॥१५॥ अथ भगवतो दीपेनोपमानिरासमाहनिर्धूमवर्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ निर्धूम० । हे त्रिभुवनभुवनैकदीप ! त्वमपरोऽपूर्वो दीपो वर्तसे । यतो दीपो धूमवान् सवर्तिस्तै[ले]नोद्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात् । त्वमपूर्वदीपः किंभूतः ? नितरां गते निर्गते धूमवर्ती यस्मादसौ निर्धूमवर्तिः । धूमो द्वेषो वृत्तिः (वर्तिः) कामदशाश्चेति । अपवर्जितस्त्यक्तस्तैलपूरो येन स, तैलपूरः स्नेहप्रकारः । अन्यच्च त्वं कृत्स्नं सम्पूर्णं पञ्चास्तिकायात्मकं जगत्त्रयं विश्वत्रयमिदं [प्रत्यक्षगतं] प्रकटीकरोषि केवलोद्योतेन प्रकाशयसि । अन्यत् त्वं जातु कदाचित् चलिताचलानां धूतगिरीणां मरुतां वातानां न गम्यो न वशः । [अथवा परीषहोपसर्गेषु चलिताचलानां कम्पितपृथ्वीकानां मरुतां

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24