Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ सप्टेम्बर २०१० अथ जिनदर्शनफलमाह दृष्ट्वा भवन्तमनिमेषविलोकनीयं नाऽन्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दृष्ट्वा० । हे प्रसन्नरूपस्वरूप ! अनिमे [षे ]ण निर्निमेषेण विलोक्यते दृश्यत इत्यनिमेषविलोकनीयस्तम्, भवन्तं दृष्ट्वा वीक्ष्य जनस्य द्रष्टुर्भव्यस्य चक्षुर्नेत्रमन्यत्र देवान्तरे तोषं चित्तानन्दं नोपयाति उपैति । चक्षुरिति जातावेकवचनम् । अत्रोपमानम्- कः पुरुषो दुग्धसिन्धोः क्षीरसमुद्रस्य पयो दुग्धं जलं पीत्वा जलनिधेर्लवणाम्भोधेः क्षारं जलं कटुकं जलमशितुं स्वादितुं पातुमिच्छेत् ?, अपि तु न कश्चित् । दुग्धसिन्धोः पयः किंभूतम् ? शशिनः करास्तद्वद् द्युतिर्यस्येति तत् शशिकरद्युति चन्द्रकरद्युति चन्द्रकरनिर्मलम् । सर्वकर्मकरो मन्त्रः कपर्दिश्राद्धवत् कामधेनुसमागमात् ॥११॥ अय भ[ग]वद्रूपवर्णनमाह यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मातिस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां ३१ यत् ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० । त्रिभुवनैकलकामभूत: (भूत) ! यैः परमाणुभिर्दलिकैर्निर्माणकर्मणा त्वं निर्मापितः कृतः । किंभूतैः ? शान्ता रागस्य रुचिः कान्तिर्येभ्यस्ते तथा, तैः । राग[स]हचरितश्च द्वेषपरिग्रहः । अथवा शान्तनामा नवमो रसस्तस्य रुचि: छाया येषु, तैः । खलु निश्चितम्, तेऽप्यणवस्तावन्त एव भगवद्रूपनिर्माणप्रमाणा एव प्रवर्तन्ते । यद् यस्मात् कारणात् पृथिव्यां भूपीठे ते तव समानं तुल्यमपरमन्यद् रूपं नाऽस्ति विद्यते । 'यैः परमाणुभिस्तेऽणवः' इति पौनरुक्त्यम् । तत्रेयं व्याख्या- औदारिकवर्गणायामभव्येभ्योऽन ऽनन्तगुणाणु - निष्पन्नाः स्कन्धा अनन्ताः सन्ति, तेषु स्कन्धेष्वणवः स्तोका एव जिनरूपपरमाणवः । अणुशब्दः स्तोकवाची, अथवा महाकविप्रयुक्तत्वाद् वा न पौनरुक्त्यम् । सारस्वतीविद्याऽस्त्यस्मिन्Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24