Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ ३० अनुसन्धान ५२ अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाहआस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ आस्तां० । अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोषं निर्मूलितनिखिलदूषणं तव स्तवनं गुणोत्कीर्तनमास्तां तिष्ठतु दूरे । स्तवमहिमा महीयान् वर्तते । त्वत्संकथा त्वत्सम्बन्धिनी त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां लोकानां दुरितानि पापानि विघ्नानि वा हन्ति । औपम्यं यथा-सहस्रकिरणः सूर्यो दूरे तिष्ठतु, प्रभैव अरुणच्छायैव पद्माकरेषु सरस्सु जलजानि मुकुलरूपकमलानि विकाशभाञ्जि स्मेराणि कुरुते । यदा सूर्योदयात् पूर्वप्रवर्तनी(-वतिनी) प्रभातप्रभा पद्मविकाश(शि)नी स्यात्, तदा सूर्यस्य किमुच्यते ?। तथा भगवद्गुणोत्कीर्तनस्तवमाहात्म्यं न कश्चिद् वक्तुमलम् । जिन(नाथ?) नामग्रहणसंकथैव सर्वदुरिति(त)नाश(शि)नीति । सर्वरक्षाकारी मन्त्रो ज्ञेयः, केशवश्रेष्ठिवत् ॥९॥ अथ जिनस्तुति[सेवा]फलमाहनाऽत्यद्भुतं भुवनभूषणभूत ! नाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ नात्य० । हे भुवनभूषणभूत !, भूतशब्दोऽत्रोपमावाची, हे विश्वमण्डनसमान ! हे नाथ ! हे प्रभो ! भूतैविद्यमानैर्भुवि पृथिव्यां भवन्तं त्वामभिष्टुवन्तः स्तुवन्तो जना भवतस्तुल्या समा भवन्ति, एतन्नाऽत्यद्भुतं नाऽतिचित्रम् । अत्र व्यतिरेकमाह-ननु निश्चितम्, वाऽथवा, तेन स्वामिना किं कार्यं किं प्रयोजनम् ?, इह भवे जनमध्ये वा यः स्वामी आश्रितं सेवकं भूत्या ऋद्ध्या आत्मसमं निजतुल्यं न करोति न विधत्ते । अहमपि तीर्थङ्करं स्तुवन् तीर्थकृद्गोत्रार्जको भवितेति कवेराशयः ॥१०॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24