Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ सप्टेम्बर २०१० लब्धवर्णो भावीति वृत्तभावार्थः ॥६॥ हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु । सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्सं० । हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन भवद्गुणोत्कीर्तनेन शरीरभाजां प्राणिनां भवसन्ततिसन्निबद्धं जन्मकोटिसमर्जितं पापमष्टविधं कर्म क्षणाद् घटिकाषष्टांशेन स्तोककालाद् वा क्षयमुपैति निर्माशमुपयाति, शरीरभाजां जीवानाम् । अमुमेवार्थमुपमिमीते- पापे (पापं) किमिव ? अन्धकारमिव । यथा शार्वरं कृष्णपक्षि(-पक्ष-)रात्रि तिमिरं सूर्यांशुभिन्नं सहस्रकिर(-कर-) रोचिविदारितमाशु शीघ्रं क्षयं गच्छति यतः । किंभूतमन्धकारम् ? आक्रान्तलोकं व्याप्तविश्वम्, अलिनीलं मधुकरकुलकृष्णम्, अशेषं सकलम्, न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । राजकुले विवादादिषु स्मर्यते । [सु] धनस्येव जयो भवति ॥७॥ स्तवारम्भसामर्थ्य द्रढयन्नाहमत्वेति नाथ ! तव संस्तवनं मयेद मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ [मत्वे०] । हे नाथ ! पूर्वोक्तयुक्त्या स्तवनकरणं दुःकरं सर्वपापहरं चेति मत्वाऽवबुध्य मया भक्तिवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं प्रत्यक्षं भण्यमानं संस्तवनं स्तोत्रम्, कर्तुमिति शेषः, आरभ्यते करणायोद्यम्यते । इदं स्तवनं मत्कृतमपि तव प्रभावात् भवतोऽनुभावात् सतां सज्जनानां चेतो हरिष्यति मनो हरिष्यति, न तु दुर्जनानाम् । ननु [इति] निश्चये, उदबिन्दुरिच्छटा नलिनीदलेषु कमलिनीपत्रेषु मुक्ताफलद्युतिं मौक्तिकच्छायामुपैति उपागच्छति । अत्र 'उदस्योदः' (पाणि० ६।३।५७) इति निपातः ॥८॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24