Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ अनुसन्धान ५२ यादो[व]न्दानि यत्रेति समासः । यथा युगान्तक्षुब्धाब्धितरणं दुःशकं तयाऽर्हत्कीर्तनं ग(गी)र्पतेरपि दुर्घटम्, तत्राऽहं प्रवृत्तः...... मन्त्रः । सुमतिश्राद्धकथा ज्ञेया ॥४॥ स्तवकरणप्रवृत्तौ क(का)रणमाहसोऽहं तथाऽपि तव भक्तिवशान्मुनीश !, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र, ___ नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ सोहं० । हे मुनीश ! सकलयोगीश ! तथाऽपि तव स्तोत्रकरणासामर्थ्य सत्यपि सोऽहं क्षीरकण्ठप्रज्ञोऽपि स्तवारम्भे विगतशक्तिरपि क्षीणबलोऽपि । डमरुकमणिन्यायेनोभयत्राऽपि तवप्रयोगः । तव भगवतो (भवतो) भक्तिवशात् सेवाग्रहात् तव स्तवं स्तुतिं कर्तुं विधातुं प्रवृत्तः कृतोद्यमो जातः । अत्रोपमानम्मृगो हिरणः (हरिणः) आत्मवीर्यं निजबलमविचार्यमविचिन्त्य निजशिशोः स्वीयबालस्य प्रीत्या प्रेम्णा परिपालनार्थं परिरक्षणाय मृगेन्द्र सिंहं किं नाऽभ्येति किं न युद्धायाऽभिमुखो व्रजति ? अपि तु व्रजत्येव ॥५॥ अथ कविरसामर्थ्येऽपि वाचाटताहेतुमाहअल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति, तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ अल्पश्रुतं० । हे विश्वविश्रुत ! त्वद्भक्तिरेव त्वच्छुश्रूषैव बलाद् हठाद् मां मानतुङ्गाचार्यं मुखरीकुरुते अबद्धमुखीकरोति, वाचालं विधत्ते इत्यर्थः । मां किंभूतम् ? अल्पानि स्तोकानि शास्त्राणि यस्येति विग्रहः । अत एव तं श्रुतवतां दृष्टशास्त्राणां विदुषां परिहार(परिहास)धाम हास्यास्पदम् । अत्र दृष्टान्तदृढता'किल' इति सत्ये, यत् कोकिलः कलकलौ(-कण्ठो) मधौ वसन्ते मधुरौ(मधुरं) मृदुकण्ठं विरोति (विरौति) कूजति, तदहं मन्ये चारुचूतकलिकानां निकरः, स चासावेकहेतुश्चेति कर्मधारयः । यथाऽम्रमञ्जरीकृत-भोजनः पुंस्कोकिलो मधुरस्वरो भुवि मनोहरः स्यात्, तथाऽहं स्तोकग्रन्थोऽपि त्वद्भक्त्या स्तवं कुर्वाणः प्रवीणश्रेणौ

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24