Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ २६ अनुसन्धान ५२ गृहान्तः क्षिप्ताः । तत्र स्तोत्रस्यैकेन वृत्तेनैककं बन्धनं त्रुटितं क्रमेण । एके वदन्ति- द्विचत्वारिंशता वृत्तेनैकेन पेतुः । तालकभङ्गोऽपि [अ]जनिष्ट । बहिरागताः सूरयः । नमस्कृताः श्रीभोजेन । 'जिन (जैन) - दर्शनं सकलम्' इति मेने । इति स्तवमूलप्रबन्धः ॥ अथाऽर्थो लिख्यते, यथा भक्तामरप्रणतमौलिमणिप्रभाणा - मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा - वालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्मयतत्त्वबोधा-दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तौत्रैर्जगत्त्रितयचित्रहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ सम्यग् जिनपादयुगं प्रणम्य, 'किल' इति सम्भावनायाम्, ‘अहं तं प्रथमं जिनेन्द्रं स्तोष्ये' इति सम्बन्ध: । जिनस्य प्रथमतीर्थकृतः, पादौ चरणौ, तयोर्युगं युग्मं जिनपादयुगम्, सम्यक् त्रिकरणशुद्ध्या नत्वा । किंभूतम् ? उद्योतयतीति उद्योतकं प्रकाशकम् । भक्ताः परिचर्यायुक्ता येऽमरा देवास्तेषां नमस्कारवशात् प्रणता नम्रा ये मौलयो मुकुटानि शिरांसि वा, तेषां मणयश्चन्द्रकान्तादयस्तासां (तेषां) प्रभा रुचिस्तासाम् । पुनः किंलक्षणम् ? दलितं क्षिप्तं पापमेव तमोवितानं ध्वान्तजाल(लं) येन तत् । ऋजुजडनराणां शिल्पि (शिल्प)नीति-लिपिकलादर्शनात् चतुः पुरुषार्थप्रकटनाद् द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुःषमाप्रान्तेऽपि युगादिकालः कृतः, अतो युगादौ । भवो जन्म-जरामरणरूप: संसार एव जलम्, तत्र भवजले पततां मज्जतां भव्यसत्त्वानाम्, आलम्बनमाधारः सदुपदेशात् । यया जले पततां द्वीपं यानपात्रं [वा] आलम्बनम्, तथा भवे निमज्जतां जिनपादार[विन्द]मेवाऽऽधारः । अहमपि मानतुङ्गाचार्योऽज्ञोऽपि सुरेन्द्राद्यपेक्षया जडधीः, नाऽन्येषामपेक्षयेति हृदयम् । स्तोष्ये गुणोद्भावनेन कीर्तयिष्यामि । तं प्रथमं श्रीनाभेयं जिनम् । यत्तदोर्नित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः शक्रस्तवाद्यैः, सुष्ठु राजन्ते सुराः, तेषां लोकः स्वर्गस्तस्य नाथैः प्रभुभिः सुरलोकनाथैः, संस्तुतः सम्यग् नुतः । [अथवा] सुरश्चाऽसौ लोकश्च सुरलोको देवसमूहस्तस्य नाथैरिन्द्रैः । किंभूतैस्तैः ? सकलं सम्पूर्णं यद् वाङ्मयं शास्त्रजातं तस्य तत्त्वं रहस्यम्, तस्य बोधाद् ज्ञानात् परिच्छेदाद्, उद्भूता उत्पन्ना या बुद्धिः प्रज्ञा, तया पटुभिः कुशलैः । स्तोत्रैः किंभूतैः ? जगतां भूर्भुवः[स्वः]स्वरूपाणां IPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24