Book Title: Agnatkartuk Avachuri Author(s): Shrichandravijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ सप्टेम्बर २०१० __ २५ ॥ भक्तामरस्तोत्रावचूरिः ॥ प्रणम्य श्रीयुगादीशं, देलुल्लापुरनायकम् । भक्तामरमहास्तोत्रस्यार्थः कश्चन लिख्यते ॥१॥ उज्जयिन्यां नगर्यां वृद्धभोजराज्यपूज्योऽधीतशास्त्रपूरो मयूरो नाम पण्डितः प्रतिव[स]ति स्म । जामाता बाणः, सोऽपि विचक्षणः, द्वयोरन्योऽन्यं मत्सरः, तौ द्वावपि राजानमसेविषाताम् । एकदा बाणस्य स्वस्त्रिया सह प्रणयकलहः संजज्ञे । सा कामिनी मानिनी मानं नाऽमुञ्चत् । रजनी बहुरगच्छत् । मयूरः शरीरचिन्तार्थं व्रजन् तं भूभागमागमत् । वातायने दम्पत्योर्ध्वनं (ध्वनि) श्रुत्वा तस्थौ । ‘पतिव्रते ! क्षमस्वाऽपराधमेकम्, न पुनः कोपयिष्ये त्वाम्' इत्युक्त्वा बाणः पत्नीपदयोरपतत् । सा सनूपरा(पुरा)भ्यां पद्भ्यां तं जघान । गृहगवाक्षाधोभागस्थितेन मयूरेण बाणोक्तं 'सुभ्र' इति पदं श्रुतम् । श्रुत्वा मयूरो बाणमभाणीत्- 'सुभ्रुपदं मा वादीः, सकोपनत्वात्, 'चण्डि' इत्थं पठ' इत्याकर्ण्य सा सती मुखस्थताम्बूलरसक्षेपात् 'कुष्ठी भव' इति पुत्रीचरित्रप्रकाशकं जनकं शशाप । तत्क्षणं कुष्ठमण्डलान्यभवंस्तत्तनौ । ___बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरकवस्त्रं परिधाय समेतं मयूरं प्रति 'आविउ चिरकोढी' इति श्लिष्टं वच उवाच । राज्ञा तद् ज्ञात्वा दृष्ट्वा च 'कुष्ठं निर्गमय्याऽऽगन्तव्यम्' इत्यवादि मयूरः । तदनन्तरं सूर्यप्रासादे गत्वा सूर्यं संस्तूय निजकुष्ठं निर्गमितं मयूरेण । मयूरमहिममत्सरी बाणः पाणिचरणौ वर्धयित्वा कृतप्रतिज्ञः चण्डिकां संस्तुत्य चतुरङ्गानि पुनर्नवीचकार । तस्याऽपि महती पूजा राज्ञा चक्रे । तयोर्महिमानमालोक्य- 'किं शिवदर्शनं विनाऽन्यत्राऽप्येतादृक्षप्रभावकवित्वशक्तिकलितः कोऽप्यस्ति ?' इति पार्षद्यानपृच्छत् श्रीभोजः । राजमन्त्री श्रावकोऽवक्- 'देव ! शान्तिस्तवविधातृ-श्रीमानदेवाचार्यपट्टमुकुटा भयहरभत्तिहर(भर)स्तवादिप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः सन्ति । आकार्य पृष्टाः-'काञ्चन कवित्वकलां दर्शयध्वम्' इति । ते ऊचुः-'महाराज ! यदि निगड-नियन्त्रितात्मानं मोचयित्वा निस्सरामि, तदा कोऽप्यादिदेवप्रभावो ज्ञेयः । ततो राज्ञा लोहभारशृङ्खलबद्धसर्वाङ्गाः सतालकद्विचत्वारिंशन्निगडनियन्त्रिता उत्पाट्यPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24