Book Title: Agnatkartuk Avachuri
Author(s): Shrichandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ३२ अनुसन्धान ५२ वृत्ते। सुबुद्धिमन्त्रीशस्य कथा ज्ञेया ॥१२॥ अथ मुखवर्णनमाहवक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं० । अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते तव वक्त्रं वर्तते ? क्व निशाकरस्य चन्द्रस्य बिम्बं मण्डलं विद्यते । किंभूतं वक्त्रम् ? सुरनरोरु(र)गाणां नेत्राणि हर्तुं शीलमस्येति विग्रहः । उरगा भवनवासिनः । पुनः किंभूतम् ? निःशेषाणि कमलदर्पणचन्द्रादीनि सर्वाणि ज(नि)जितानि जगत्त्रयस्योपमानानि येन तत् । चन्द्रबिम्बं[किं] भूतम् ? कलङ्कमलिनम् । यच्च चन्द्रबिम्बं वासरे दिने पाण्डुपलाशकल्पं जीर्णपक्वपाण्डुरपर्णसवर्णं भवति । मुखस्य तेनोपमा कथं घटत इति वृत्तार्थः । विद्या रोगापहारिणी समस्तवृत्तेऽस्मिन् ॥१३॥ अथ गुणव्याप्तिमाह सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लड्ययन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥ सम्पू० । हे त्रिजगदीश्वर ! त्रिजगन्नाथ ! तव गुणास्त्रिभुवनं लङ्घयन्ति अतिक्रामन्ति । किंभूताः ? सम्पूर्णमण्डल[:]शशाङ्कः चन्द्र[स्त]स्य कलाकलापः करनिकरस्तद्वत् शुभ्रा धवलाः । ये गुणा एकमद्वितीयं नाथं संश्रिताः । कः पुरुषो यथेष्टं स्वेच्छया सञ्चरन्तः परिभ्रमन्तः (सञ्चरतः परिभ्रमतः) तान् गुणान् निवारयति निषेधयति ? अपि तु न कश्चित् । अस्मिन् वृत्ते द्वे विद्ये विषापहारिणी विद्या सर्वसमा(मी)हितदायिके वडासुश्रावकाकथास्ति सत्यकश्रेष्ठिनः कन्या डाहीकथा चाऽस्ति ॥१४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24