Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ 2X* अघटकु. चरित्रम्. X **OSARAS RASAEX पदे पदे लसत्क्रीडानाटकानां निरीक्षणात् / कौतुकान् दर्शयन् पुत्रं भूपद्वारं जगाम सः // 109 // द्वाःस्थेनावेदितो राज्ञस्ततो राजाऽभ्यनुज्ञया / सोऽविक्षत् क्षितिपास्थानं पुत्रादिपरिवारितः // 11 // |तुरङ्गयुगमुत्तमं प्राभृतीकृत्य कृत्यवित् / नत्वा नरेश्वरं श्रेष्ठं यथास्थानमुपाविशत् // 111 // पुरोधसः पुनदृष्टिरघटं नवयौवनम् / आलिलिङ्गाऽनुरक्तेव सुभगं वरवर्णिनी // 112 // अथ देवधरो राज्ञा सुप्रसन्नेन सत्कृतः। ययौ निर्दिष्टमावासं मेराल इव मानसम् // 113 // ज्ञानगर्भस्ततः माह विस्मयस्मेरमानसः / राजानं वचनैस्तथ्यैर्वशिष्ठ इव राघवम् // 114 // आसीदेवधरं देव ! दक्षिणेनेह यः पुमान् / अस्ते रिव भूपाल ! स्थाने ते स भविष्यति // 115 // तत्क्षणादेव चुक्षोभ तद्वाचा मापतेर्मनः। मन्दरक्ष्माधरेणेव विगाढः सरितां पतिः // 116 // स्वतन्त्रे च सपुत्रे च मयि राजनि जीवति / अन्योऽपि श्रीविशालायां किं भविष्यति भूपतिः?॥११७॥ सम्भावयामि दासेरः स एवैषोऽपि नेतरः / ग्रीवाभरणमादाय नूनं तेनाऽप्यमुच्यत // 118 // स एवाक्षरविन्यासः सैव विस्मयपत्रिका / सहसा ज्ञानगर्भस्याऽऽविरास कथमन्यथा ? // 119 // इति चेतसि संचिन्त्य निश्चिकाय पुनर्नवम् / विनाशोपयिकं तस्य सुगूढं प्रौढशासनः // 12 // 1 'विश्' धातोरद्यतन्याम् / 2 हंसः 3 'अस्'धातोः स्थाने यथाऽशिति विषये भूरादेशो भवति / 4 दासीपुत्रः 5 पत्तिना।
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40