Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand

View full book text
Previous | Next

Page 28
________________ // 13 // निर्द्रव्य- ध्यात्वेति विष्णुशर्मोळें घनान् देशानथाऽभ्रमत्। तथाऽपि क्वापि न प्राप निर्भाग्यः श्रायसीं श्रियम् 11 विप्रकथा. प्रवीणं क्वापि सोनाक्षीद् ब्राह्मणं द्रविणेच्छया / द्रव्यस्योपार्जनोपायं कृपया सोऽपि चाभ्यधात् 12 रत्नद्वीपोऽस्ति वाद्यन्तस्तत्र रत्नखनीश्वरी / आराध्या देवता दत्ते रत्नं भाग्याऽनुमानतः // 13 // इति तस्योपदेशेन रत्नद्वीपमियाय सः। रत्नखानीश्वरी देवी प्रसादयितुमादृतः॥१४॥ त सातः कृतोपवस्त्रश्च धौतचीवरपीठरुक् / पुष्पैरभ्यर्च्य तां देवीमुपविष्टस्तदग्रतः // 15 // सोऽथ द्रव्येच्छया तस्थावेकविंशतिवासरान् / निराहारस्ततो देवी प्रादुर्भूयाऽवदत् क्षणात् // 16 // द्वारे ! त्वं निष्पुण्यकोऽसीति मदेहाद याहि सत्वरमानोचेदनर्थस्ते भावी 'धनं धर्माद ऋते न यत' 17 है इत्येवं देवतावाचं श्रुत्वाऽतिसाहसी द्विजः / यदि स्यात् सुकृतेनाऽर्थस्तत् किं ते देवि ! वैभवम् 18 निर्भाग्यस्यापि तहेवि ! देहि चिन्तामणिं मम / नो चेत्तदाऽहं खप्राणान् मछु त्यक्ष्यामि ते पुरः 19 // | इत्युदीर्य स्फुरद्वीर्यः धुरीमाकृष्य सत्वरम् / द्विजो निजं शिरश्छेत्तुमुपचक्राम स क्रमात् // 20 // | ततस्तुष्टाऽस्य सत्त्वेन दत्त्वा देवी मणिं मुदा / तडिल्लेखेव सा शीघ्रं जगाम निजधामनि // 21 // ततोऽसौ सिद्धसर्वार्थो निजगेहं प्रति द्विजः / प्रतस्थेऽम्बुधिमार्गेण यावत्तावन्निशाऽऽगमत् // 22 // // 13 // ततः क्रमाच्छिरोदेशे पूर्णेन्दुर्गगनेऽगमत् / किमयं द्युतिमान् किंवा मन्मणिः स्यादितीक्षितुम् // 23 // द्विजातिस्तं मणि हस्ते गृहीत्वाऽऽलोकयत् क्षणम् / चन्द्रबिम्बे मणौ चापि दृष्टिं चिक्षेप स क्षणम् 24|| OGOSLOGA*

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40