Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand

View full book text
Previous | Next

Page 36
________________ सिद्धदत्त कथा. // 17 // चत्वरिकायामेवागतः। तदर्शनाल्लोकाः सर्वे दिशोदिशं त्रेसुः / वसुदत्तोऽपि वधूं त्यक्त्वा भयभ्रान्तो / नष्टः / गजो मण्डप-चत्वरिकादि पातयन् वध्वासन्न एव गतः। अत्रान्तरे तत्रासन्नस्थेन प्राप्तव्यमार्थकेनाऽचिन्ति-'आः ! कष्टमनर्थो भावी / एतस्याः कन्याया विनाशो भावी / ततः करोमि रक्षामे-13 तस्याः'। इति विचिन्त्य स साहसनिधिः काष्ठमेकमुत्पाट्योत्थाय हस्तिनं कुम्भस्थले जघान / एवं * लब्धलक्ष्यत्वेन भ्रमयित्वा विलक्षीकृत्य वशीकृतस्तेन गजः / ववार्पित आरक्षकाणाम् / तैश्च हस्ति शालायां बद्धः / ततः सर्वं स्वस्थं जातम् / पुनः सर्वे वरपक्षजा वधूपक्षजाश्च मिलिताः। तेषां सर्वेषां 3 शृण्वतां वध्वाऽभाणि-"अहं येन हस्तिनः पार्थात् त्राता स एव मम वरः।तं विनाऽन्यं प्राणान्तेऽपि नेच्छामीति” / इति कन्यावचः श्रुत्वा वरपक्षजा जगुः-"अस्माकं वरो मण्डपे चत्वरिकायामागतो , विवाहं कृत्वैव यास्यति / कन्याऽपि यस्य दत्ता तस्यैव, नान्यस्य भवति" इति / ततो वधूपक्षजै६ रूचे-'वरः स एव यं कन्या वाञ्छति / वरः केनाऽपि न भवति' इति / एवमुभयेषां कलहो जातः। 4 तं कलहं श्रुत्वा राज्ञा कश्चिजनः पृष्टः किमिति / तेनोचे कलहखरूपम् / ततः सर्वे कलहायन्तो नृप-15 समीपे आगताः / प्राप्तव्यमर्थिकोऽपि सार्धमागतः। ते राजमन्दिरे आगता विवदमाना राज्ञा पृष्टाः-|॥२७॥ 'कस्माद् यूयं विवदथ' ! / वरपक्षजैरूचे-'स्वामिन् ! अनेन जिनदत्तेन पूर्व खसुताऽस्मद्वरस्य दत्ता। अधुना तु वरो मण्डपे आगतस्तदैतत्पुत्री कथयति 'नाहं वरं करिष्य' इति / ततो राज्ञा पृष्टो जिन-1

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40