Book Title: Aghatkumar Charitram Pramade Nirdravyaviprakatha Punyaprabhave Siddhadutta Katha
Author(s): Manchand Velchand
Publisher: Manchand Velchand
View full book text ________________ सिद्धदत्त // 18 // यत इति / ततो ममाऽप्येष एव वरोऽस्तु' / इति निश्चित्य त्रैलोक्यसुन्दर्याऽभाणि-'देवो न तलब-1|| कथा. यितुं समर्थः' / इत्युक्ते राज्ञा पृष्टम्-'किं कथयसे वत्से' ! / ततस्तयोचे-"तात ! श्रूयताम्-यदा युष्माभिमा यौवनवयःप्राप्तां ज्ञात्वा वरायोपक्रान्तं, तदा मयाऽचिन्ति-तातो महाकुलोद्भवं महचिकं वरं विलोकयिष्यति / मम तु कलावानभिरुचित इति / ततो मया वीरसेनेन सह सङ्केतः कृतोऽभूत् / परं स कस्मादपि नागतः, कथमपि एष एवागतः, अन्धकारेऽनुपलक्षितः पाणिगृहीतः, पश्चादुपलक्षितः, पुनर्मयाऽभागिन्या त्यक्त" इति / ततो धनसारश्रेष्ठिपुत्री रूपवती उवाच-“तस्मान्न || शोको न हि विस्मयो में” इति / ततो राज्ञा पृष्टा साऽप्युवाच सर्व निजवृत्तान्तम् / ततो वसुमती 6 दृढीकरणाय श्लोकपूरणाय चाकथयत्-“यदस्मदीयं न हि तत्परेषाम्" इति / एवं प्राप्तव्यमर्थिकस्य कन्यात्रयपाणिग्रहणं कारयित्वाऽर्द्धराज्यं दत्तम्, युवराजपदे स्थापितः, पञ्चशतनामा दत्ताः / एवं वधूत्रययुतः सिद्धदत्तः सुखलीलया कालं गमयति / | एकदा प्रस्तावे तन्नगरोद्याने श्रीधर्मघोषसूरयः समवसृताः। तान् वन्दितुं राजा सिद्धदत्तयुवरा जादिपरिवारपरिवृतो जगाम / धर्मदेशनान्ते राज्ञा पृष्टम्-भगवन् ! केन कर्मणा सिद्धदत्तस्येतावती // 18 // |ऋद्धिप्राप्तिः ? / गुरुभिरुक्तम्-विशालापुर्यां मातृदत्त-वसुदत्तौ वणिजौ / आद्यः साधुपार्थे गृहीतस्थ|लपरद्रव्यग्रहणनियमः, नेतरः / शुद्धाशुद्धव्यवहारपरौ दरिद्रौ / अन्यदा द्रव्यार्जनाय पुण्डपुरे गतौ /
Loading... Page Navigation 1 ... 36 37 38 39 40