Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - १४
२६१
अनुपयोगोस्तु भावशून्यता, तच्छ्रन्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्त्तमानो न तथेति भावार्थः ।
अत्राह - नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टासिद्धैः शिक्षितादिश्रुतगुणसमुत्कीर्त्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्त्तनं कुर्व्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति किं पुनः सदोषम् ?, उयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्य नुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपक्तस्य तु मतिवैकल्यादित: सदोषा अप्यम्री कर्ममालापगमायैवेत्यलं विस्तरेण ।
अत्राह - ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो ? येनोक्तमहीना क्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धन्ते ?, तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तयां परिषदि कस्यचिद्विधरस्य गगनोत्पतनहेतुविद्यासम्बन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ पुनरुत्पतति पुनश्च निपतति, एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः - किमित्ययं महाभाग: खेचरो विधुरतिपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतति ?, भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यै वमवादीत् भोः खेचर! यदि मां समानसिद्धिकं करोषि तदा त्वद्विद्याऽक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन, अभयकुमारस्य चैकस्यादपि पदादनेकपदा भ्यूहशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितम् खेचरस्य, सोऽपि संजातसंपूर्णविद्योदृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति, एष दृष्टान्तः, उपनयस्त्वयम् - यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं, तदुपरमे च व्यर्थेव विद्या, तथेहापि हीनाक्षरतायामर्थभेदस्तदभेदे क्रियाभदेस्तद्भेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति
I
एवमाधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः ॥
मू. (१५) नेगमस्स णं एगो अनुवउत्तो आगमओ एगं दव्वावस्सयं दोन्नि अनुवउत्ता आगमओ दोन्नि दव्वावस्सयाइं तिन्निअनुवउत्ता आगमओ तिन्नि दव्वावस्सयाई एवं जावइआ अनुवउत्ता आगमओ तावइआई दव्वावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा अनुवउत्तो वा अनुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा से एगे दव्वावस्सए, उज्जुसुअस्स एगो अनुवउत्तो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिह सद्दनयाणं जाणए, अनुवउत्ते अवत्थु, कम्हा ?, जइ जाणए अनुवउत्ते न भवंति, जइ अनुवउत्ते जाणए न भवति, तम्हा नत्थि आगमओ दव्वावस्सयं । से तं आगमओ दव्वावस्सयं ॥ वृ. इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते,
'नत्थि नएहिं विहुणं सुत्तं अत्थो य जिनमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 257