Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Samaysundar, Haribhadrasuri,
Publisher: Shravak Bhimsinh Manek
View full book text
________________
- दशवकालिके वितीया चूलिका। --- ६ए.
श्री हरिजप्रसूरि विरचित टीकोपसंहारः॥ .. यमुक्तं नियुक्तिकृता प्राक् । येन वा यंवा प्रतीत्येति । तत्र येन कृतं तमतवक्तव्यतामाह ॥ सेङनवं गणहरं जिणपडिमादसणेण पडिबुझं ॥ मणगपिअरं दसका-लिअस्स निकाहगं वंदे ॥ १॥ ॥ अस्या व्याख्या ॥ शय्यंजवमनुत्तरझानादिधर्मगणं धारयतीति गणधरस्तं प्रतिबुद्धं मिथ्यात्वाविरत्यज्ञाननितापगमेन सम्यक्त्व विकाशं प्राप्तं पूर्वगतोकृतार्थ विरचनाकर्तारं वन्दे स्तौमीति गाथादारार्थः । जावार्थस्तु कथानकादवसेयः । श्रीसुधर्म शिष्यो हि जम्बूस्तस्य श्रीप्रनवस्तस्य शय्यंजवः । मनकपितरं दशवैकालिकळतं तं वन्दे चेति ॥ १॥ ॥ मणगं पडुच्च सिडनवेण निलू-हियाद सतयणा ॥ वेआलिया विश्रा तम्हा दसकालिअं णाम ॥२॥म्याख्या॥ मनकं प्रतीत्य मनकाख्यमपत्यमाश्रित्य शय्यंजवेन नियूंढानि पूर्वगतामुत्य विरचितानि दश अध्ययनानि सुमपुष्पिकादीनि सनिवध्ययनप्रा. न्तानि । विगतः कालो विकालः । विकलनं वा विकालः । सकलः खण्मश्चेति तस्मिन् विकाले निर्वृत्तं दशाध्ययननिर्माणं च इदं वैकालिकम् ॥२॥ ॥ प्रतीत्य कृतं तक्तव्यतामाह ॥ बहिं मासेहिं अहीअं, अनयणमिणं तु अजमणगेण ॥ उम्मासा परिश्रा, श्रह कालगसमाहीए ॥३॥ ॥ अस्या व्याख्या ॥ षड्भिर्मासैरधीतं पवितमध्ययन मिदं त्वधीयत इत्यध्ययनम् । इदमेव दशवैकालिकाख्यं शास्त्रम् । केनाधीतमित्याह । आर्यमणकेन । नावाराधनयोगात् श्राराद्यातः सर्वहेयधमैन्य इत्यार्यः । आर्यश्चासौ मणकश्चेति विग्रहस्तेन । षएमासाः पर्याय इति । तस्यार्यमणकस्य षएमासा एव प्रव्रज्याकालः अल्पजीवितत्वात् । अत एवाह । श्रथ कालगतः समाधिनेति । यथोक्तशास्त्राध्ययनपर्यायानन्तरं कालगत आगमोक्तेन विधिना मृतः । समाधिना शुजलेश्याध्यानयोगेनेति गाथार्थः ॥३॥ ॥ अत्र चैवं वृद्धवादः । यथा तेनैतावता श्रुतेनाराधितमेवमन्येऽप्येतदध्ययनानुष्ठानत आराधका नवन्त्विति ॥ आणंदशंसुपाय, कासी सिर्जनवा तहिं थेरा ॥ जसजस्स य पुछा, कहणाअ विश्रालणा संघे ॥४॥ ॥अस्या व्याख्या ।आनन्दाश्रुपातमहो श्राराधितमनेनेति हर्षाश्रुमोदणमकार्षः कृतवन्तः शय्यंजवाः प्राग्व्याख्यातस्वरूपास्तत्र तस्मिन् कालगते स्थविराः श्रुतपर्यायवृद्धाः प्रवचनगुरवः । पूजार्थं बहुवचन मिति । यशोनजस्य च शय्यंजवप्रधान शिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृडा। जगवन् किमेतदकृतपूर्वमित्येवंजूता। कथना च जगवतः संसारस्नेह ईदृशः।सुतोममायमित्येवंरूपा। चशब्दादनुतापश्च यशोजजादीनाम् । श्रहो गुराविव गुरुपुत्रके वर्तितव्यमिति।
८८

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771