Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Samaysundar, Haribhadrasuri,
Publisher: Shravak Bhimsinh Manek
View full book text
________________
७४ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस (४३) - मा.
दिवत् । इह ये स्थावरजङ्गमभूतोपरोधपरिहारिणस्ते उजयप्रसिद्धैवंविधपुरुषवदहिंसादिलक्षणधर्म साधका दृष्टास्तथाच साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः । तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम् । पदा विशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते । एवमर्थाधिकारद्वयवशात्पञ्चावयवदशावयवाच्यां वाक्याच्यां व्याख्यातमिदमध्ययनम् । इदानीं भूयोऽपि नङ्गयन्तरजाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे निर्युक्तिकारः ॥ ते उप वित्ती, हे विजत्ती विवरकपडिसेहो ॥ दितो व्यासका, तप्पडिसेहो निगमणं च ॥ १४२ ॥ व्याख्या ॥ त इति अवयवाः । तुः पुनः शब्दार्थः । ते पुनरमी प्रतिज्ञादयः । तत्र प्रतिज्ञानं प्रतिज्ञा वक्ष्यमाणस्वरूपेत्येकोऽवयवः । तथा विजजनं विभक्तिः । तस्या एव विषयविभागकथनमिति द्वितीयः । तथा हिनोति गमयति जिज्ञासित - धर्मविशिष्टानर्थानिति हेतुस्तृतीयः । तथा विजजनं विनक्तिरिति पूर्ववच्चतुर्थकः । तथा विसदृशः पो विपक्षः साध्यादिविपर्यय इति पञ्चमः । तथा प्रतिषेधनं प्रतिषेधः । विपक्षस्येति गम्यते । इत्ययं षष्ठः । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः । तथा शङ्कनमाशङ्का प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः । तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः । तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः । चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः । व्यासार्थं तु प्रत्यवयवं यति ग्रन्थकार एव । तथा चाह || धम्मो मंगलमुक्कि-हं ति पन्ना अत्तवयण निदेसो ॥ सो य इहेव जिएमए, नन्नव पन्नपविजत्ती ॥ १४३ ॥ व्याख्या ॥ धर्मो मङ्गलमुकुष्टमिति पूर्ववत् । इयं प्रतिज्ञा । यह । केयं प्रतिज्ञेत्युच्यते । आप्तवचननिर्देश इति तत्राप्तोऽप्रतारकः । अप्रतारकश्चाशेषरागादियाद्भवति । उक्तं च " ॥ आगमो ह्यातवचन - माझं दोषकयां द्विडुः ॥ वीतरागोऽनृतं वाक्यं न ब्रूयात्वसंजवात् ॥ " तस्य वचनमाप्तवचनं तस्य निर्देश श्राप्तवचन निर्देशः । आह । यमागम इति । उच्यते विप्रतिपन्न संप्रतिपत्ति निबन्धनत्वेनैष एव प्रतिज्ञेति नैष दोषः । पाठान्तरं वा साध्यवचननिर्देश इति । साध्यत इति साध्यम्, उच्यत इति वचनमर्थः । यस्मात्स ratara | साध्यं च द्वचनं च साध्यवचनं साध्यार्थ इत्यर्थः । तस्य निर्देश: प्रतिज्ञेति । उक्तः प्रथमोऽवयवः । अधुना द्वितीय उच्यते । स चाधिकृतो धर्मः । किमिव जनमतेऽस्मिन्नेव मौनीन्द्र प्रवचने नान्यत्र कपिलादिमतेषु । तथाहि । प्रत्यक्ष एवोपलभ्यन्ते वस्त्रायतप्रभूतोदकाद्युपजोगेषु परिव्राट्प्रनृतयः प्राप्युपमर्दं कुर्वाणास्ततश्च कुतस्तेषु धर्म इत्यत्र बहु वक्तव्यम् । स्तरनयाना वितत्वाच्चेति । प्रतिज्ञाप्रविनक्तिरियं प्रतिज्ञा विषय विभागकथनमिति गा

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771