Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
अस्यापमर्थ:-रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाऽप्रमहिषी प्रमुखाऽन्तःपुरस्य कौमुदी | महोत्सवे नगरस्यान्तः स्वेच्छाप्रचारोऽनुज्ञातः। तदवगम्य नागरलोकेनापि राजाऽनुमत्या स्वकीयस्प खीवनस्य तथैव । क्रीडनमनुमतं, राज्ञा च नगरे सडिडिमशब्दमाघोषितं. तद्यथा-अस्तमनोपरि कौमुदीमहोत्सवे प्रवृते यः कश्चित्पुरुषो नगरमध्ये स्थितः प्रच्छन्नमुपलब्धश्च तदा तस्य शरीरनिग्रहं करिष्यामि न केनाप्यस्मिन्नर्थे विज्ञप्तिः कार्या नाहं तं मोक्ष्यामि, इत्येवं व्यवस्थिने सत्येकस्य वणिजः पटपुत्राः, ते च कौमुदीदिने क्रयविक्रयन्यात या तावस्थिताः यावत्सूर्योऽस्तंगतः, तदनन्तरमेव स्थगितानि च नगरद्वाराणि, तेषां च व्यग्रतया न निर्गमनमभूत् । ततस्ते भयसम्भ्रान्ता: नगरमध्प एवा. ऽऽस्मानं मोपयित्वा स्थिताः । ततोऽतिकान्ते कौमदीप्रकारे राजाऽऽरक्षकाः समाहूयादिष्टाः, यथा-सम्पग्निरूपयत यूयमत्र कौमुदीप्रचारे नगरान्तः कश्चित्पुरुषो व्यवस्थित इति । तैरप्यारक्षकैः सम्यक् निरूपयद्भिरूपलम्प षड्वणिक्प्रवृत्तान्तो राजे निवेदितः । राजाप्याज्ञामकृषितन तेपो षण्णामपि वधः समादिष्टः । ततस्तपिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽ. कालापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढनयाऽगणितविधेयाधेयविशेषो राजानमुपस्थितोऽवादीच गद्दया गिरा, यथा-मा कृथा देव! कुलक्ष यमस्माकं, गृह्यतामिदमस्मदीयं कुलमायात स्वभुजोशर्जितं न प्रभूनं द्रविण जातं, मुच्यता. ममी पदपुत्राः, क्रियतामयमस्माकमनुग्रहः इत्येवमभिहितो राजा तद्ववनमाकये विशेष पुनरपि वधमादिदेश । अमात्रपि वणिक सर्वरधाशकी समस्तमो चनानभिप्राय राजानमवेत्य पश्चाना मोचनं याचितवान् , तानध्य मौ राजा न मोक्तुमना | इत्येवमवगम्य चतुर्मोचनकते सादरं विसवान् , स्थाऽपि राजा तमनादृत्य ऋषितवदन. एव स्थितः । ततस्त्रयाणां विमोचने

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334