Book Title: Abhanakajagannatha Author(s): Jagannatha Publisher: Jagannath Ambaram View full book textPage 7
________________ गाथाशब्दा प्राकृतादेव संस्कृतं प्रविष्ट इत्यत्र नास्ति गमकः । "कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि"इति रामायणीये श्लोके (सु. ३४.६)गाथाशब्दो जनतया ब्याह्रियमाणायां सामान्यायां नीतौ वर्तते। "गाथा ताथागतानां गलति "विदान्तदेशिकप्रणीते तत्त्वमुक्ताकलापे पञ्चशततम पद्यम्)इत्यत्र गाथाशब्दः शास्वीयं समयं न्याय वा सूचयति। मैत्रेव्युपनिषदि वर्तमानो गाथाशब्दः प्राकृतमूल इति कथमवसेयम् ? प्राकृतगाथा नैवाभाणकसखी। सा छन्दोविशेषः । यदि प्राकृतगाथाशब्द एव गादेशब्दस्य मूलमभविष्यत्, तालगतिं वा छन्दोगति वा स नात्यक्ष्यन्नापि नीतिबोद्धत्वरूपं भिन्नतरं कर्तव्यभारम् अवक्ष्यत्। कन्नडभाषायाम् उपलभ्यमानानि सर्वाण्यपि गादेवाक्यानि गद्यमयान्येव। गादेशब्दस्य गीतपरत्वेऽपि गायक-गावि-शब्दयोर्वेदिकयोरस्य बन्धुत्वं निरपवादम्। नीतिबोद्धृत्वरूपधर्मवत्योऽपि गाथा: संस्कृतवाङ्ये कामं गोचरः। तस्मात् कन्नडाभाणकभवनं गादेरूपेण प्रविष्टोऽतिथिर्गाथाशब्दो मूलत: सास्कृतस्यैव साम्राज्यस्य प्रजेति किं न सुवचम् ? ममेदं प्रतिपादनं विद्यानिधिबिरुदभाजा बेङ्गळूरवीयेन न्याषनल्-कालेज्के संस्कृतविभागाध्यक्षेण प्राचार्येण तत्रभवता के.एस.कण्णन्वर्येण संकलिते संपादिते च सकन्नडानुवादे सूक्तिकोशे समुद्धृतं पद्यं पोषयति। इत्थंभूतं तत् पद्यम्सर्वोद्वेगकरं मृगादनममुं संत्यज्य हा धिक् त्वया लोकस्यानपकारिणं गिरिनदीतीराटवीनिर्वृतम् । अश्नन्तं तृणमेणशावमदयं व्याध! नतामुं वृथा 'देवो दुर्बलघातकोऽय मिति सा गाथा यथार्थीकृता ।। न केवलमेतावदेव, तत्रभवान् सुविस्पष्टमेवमाह- "कन्नडस्य गादेवाक्यानां १.सूक्तिकोश-के.एस्.कण्णन् । पृ.३०. Abhijhana, Gokhale Institute of Public Affairs Campus, N.R.Colony, Bangalore-560019.2007 संस्कृतस्य गाथा एव मूलम्(कन्नडद ‘गादे'गे संस्कृतद 'गाथै'ये मूल)”। केषुचन कन्नडाभाणकेषु भागद्वयम्-पूर्वार्धम् उत्तरार्ध चेति। उभौ भागी मात्रागणेन वा अंशगणेन वा किञ्चिदिव उच्चारणकालसाम्यं कदाचिद् दर्शयतः । अनेकेषु आभाणकेषु भागद्वयस्यापि प्रथमौ शब्दौ (आदिमे वर्णे आहोस्विद् द्वितीये वर्ण)प्रासवन्तौ । एतेन बन्धदायमाविर्भवति। ___ संस्कृतेतरभाषागताभाणकानामनुवादा: पूर्वेः सूरिभिः कृताः । देवनागरीलिप्या वङ्गभाषागता केचनाभाणकास्तेषां संस्कृतानुवादाश्च-उभयेषां दर्शनं मया कृतं संस्कृतचन्द्रिकापत्रिकायाम् (१९०५ एप्रिल्-१९०६माच्)। बङ्गीयप्रवादानुवाद इति कृतेरस्या: संज्ञा । तत्र रचयितुर्नामधेयं न मुद्रितम् । रचयिता पीठिकायाम् एवं ब्रवीतिः- “इमानि खलु प्रवादवचनानि बङ्गीयस्थानात् प्राचीनेभ्यः पुरुषेभ्यो योषिद्भ्यश्च कलहशीलाभ्यः (!)समग्राहिषम्"। कृतिरियं पार्थक्येन ग्रन्थाकार लम्भिता वा न वा न जाने।ततश्च करूर शेषाचार्येणापि लौकिकगाथाचतुश्शतीति संजया केषाञ्चन कन्नडाभाणकानामनुवादः संस्कृतत्वं लम्भित । मुलमत्र न दत्तम्। स ग्रन्थो महाराजसंस्कृतमहापाठशालापत्रिकायां प्रकटितः पार्थक्येनापि ग्रन्थाकार प्रापितः। लोकप्रसिद्धाभाणकानामनुकरणेन स्वतन्त्रान् आभाणकान् केचिदरचयन् ग्रन्थरूपेण प्राकाशयंश्च । तत्रभवता वासुदेवद्विवेदिना रचिता दीपकलिका (या परमार्थसुधायां प्रकटिता)अत्र निदर्शनम् । आभाणकमजयप्यत्र गणनीया या अर्वाचीनसंस्कृतप्रकाशनतः प्रकटिता। वर्षाणां सप्तविंशतिः प्रयतितनवीनाभाणकसर्जनस्य मम। चतु:शतम् (४००) आभाणकास्तदा रचिताः “सुधर्मा पत्रिकायां च क्रमशः प्रकटिताः । गच्छता कालेन पूर्वरचितेष्वाभाणकेषु शतम् आभाणका बन्धदाढ्यहीनत्वानुत्पाटिताः । एवम् आहत्याभाणकसंख्या त्रिशतम् (३००) अभूत् । अवशिष्टेष्वपि शैलीदृष्ट्या बहवो लोपागमादेशा४ कृता ।तत एकोत्तरं त्रिशतम् (३०१)आभाणका योजिता । एकोत्तरं षट तम् (६०१)Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73