Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 14
________________ [३-४] आभाणकजगन्नाथः १२. मत्कुणात् कम्प्रा मातङ्गेन युयुत्सन्ति । १३. मितौ नष्टायां मुसलेन संभाषे । १४. मुसले किसलयः । १५. यज्ञे दग्धं यजमानस्य श्मश्रु । १६. विश्ववेदसो विचित्रचरित्राः । १७. वृद्धा विदग्धाः पाकैर्दग्धाः । १८. वैनतेयं वेतण्डो लङ्कनेन विस्माययति । १९. शशकं दृष्ट्वा शलल: शल्यानि तेजयति । २०. सिंही सूकरं सूते । २१. स्थगिता वृष्टिः स्थगितो पातो न विटपिदलगतबिन्दूनाम् । ४. अज्ञानम् १. अज्ञाननिगूहनं विज्ञानविशेषः । २. अटनमकृत्वा रटति । ३. अर्धबोधो बाधः । ४. [८४] अलंकारविद्यार्थिनो बलं वदनपिधानम् । ३. १२. युयुत्सन्ति योद्धुमिच्छन्ति । युध् + सन् । ३.१६. विश्ववेदसः - विश्वप्रज्ञाः । वैदिकोऽयं शब्दः । ३.१७. पाकै अल्पवयस्कैः डिम्भैः । दग्धा:- लक्षणया पराजिताः । ३. १९. शलल४ - देहे शललानि ( कण्टकान् ) धरन् चतुष्पात् प्राणिविशेषः । एष भीतः सन् स्वकीयानि शललानि शत्रौ क्षिपति । तेजयतितीक्ष्णीकरोति । ३.२१. वृष्टिः स्थगिता, वृक्षपत्रगतानां जलबिन्दूनां भूमी पातस्तु न स्थगितः । ४.४. अलंकारविद्यार्थिनः- अलंकारप्रियस्य विद्यार्थिनः । ५. ६. एडमूकः पित्रोः पीडनाय । ज्ञानहीनस्य श्मश्रु मानरक्षणाय । ७. “रे हय " इत्युक्ते “हे वय " मिति प्रत्युत्तरति । ८. वामहस्ताङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः । ९. सामिज्ञानं संकटाय । १. २. ३. १. २. आभाणकजगन्नाथः ३. ४. [४-६] ५. ६. मृदमदन्ति मृदुललिताः । ७. ५.धर्मसंकटम् इष्टा बन्धवः कष्टा च धान्यहानिः । भक्ष्ये रक्तिर्भिषजि च भक्तिः । भिस्सटायास्त्यागे प्रीतिभङ्गः, भोगे स्वास्थ्यभङ्गः । [९६] ६. अतिमार्दवम् उपलहृदयानां द्वारि उत्पलहृदया भिक्षन्ते । करी मृदुवचनः कबलितः काकेन। भीरूणां शशकानां तृणकम्पोऽपि व्याघ्रझम्पः । मल्लिकया सह मल्लयुद्धम् । मशको महानादेन महिषस्य कर्णकुहरं भनक्ति । सर्व सहमाना गर्ववद्भिर्गीर्यन्ते । [93] ४.५ एडमूक - वक्तुं श्रोतुं चाशिक्षितः । ४.८. वामहस्ताङ्गलीविदग्धस्यनिरक्षरभट्टाचार्यस्य । ४.९. सामि - अर्धम् । ५.३. भिस्सटायाः- दग्धस्योदनस्य । ५.१. उपलहृदयानां कठिनमनस्कानाम् । ६.३. झम्प:- jump.

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73