Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 35
________________ आभाणकजगन्नाथ आभाणकजगन्नाथ Fus ५४.धनमहिमा १. कनकाय सनकोऽपि स्पृहयते। द्रविणे दृष्टे धर्मराजोऽपि पाटच्चरो बुभूषति। ३. धनवती दूर्वा दरिद्रं देवदारुं नियुद्धे निपातयति। धनमर्जय, मानं वर्जय। भर्मदवतैव धर्मदेवता। रैशब्देन श्रवा दिव्या रोहन्ति बधिरेष्वपि । ७. वसुमान् विट्चरो वाजिना वीज्यते। ८. वित्तमादाय विलपनं कृत्त-मानानाम् आजीविका। ९. हाटकाशया कीटकं त्रोटयति। ५५.स्थानमहिमा १. अंहति सिंह सिंहासनस्थस्य ग्रामसिंहस्य पुरस्तात्। २. अटवीकेसरिणं नगरकुक्करो नामयते। ३. ग्रामटिके सार्वभौमो महानगरे तृणायापि न। ४. स्वग्रामे वेतण्ड परग्रामे पिष्टपिण्डः। [६९० ५६.कालमहिमा १. उत्पाटितदन्तम् अजगरं मण्डूको मुसलेन ताडयति। २. उर्वीश्वरो दर्वी गृहाति। ३. दुर्भिक्षे ग्रसताद् देवोऽपि ग्रासम् । ४. भूतपूर्वसर्वाधिकारी संप्रति भिक्षाचारी। ५. मेरं दृष्ट्वा मृत्कुम्भं विस्मरति । विरागी वाधुषिकः संजातः। ७. वीतरागाः स्फीतभोगाः संवृत्ताः । ८. समय श्वमयः । ९. सुख प्राप्ते सख्यं किमर्थम् ? १०. सुमनांसि द्विषन्ति सरघाः। ११. स्वरोस्त्सरुभग्नः । [७०१] ५७.अन्नमहिमा १. उदरार्थमुदारा वाचः । २. जगद्देश्यकाव्यस्य जाठराग्निरेव सूत्रधारः । ३. तण्डुलाय ताण्डवं नृत्यम् । ५४.२.पाटचर-चोर४ । ५४.३.नियुद्धे-मल्लयुद्धे । ५४.५.भर्म-सुवर्णम् । ५४.६.रैशब्देन-धनमिति शब्देन ।थवा:-कर्णाः । ५४.७.वसुमान्-धनवान् । विट्चर:-ग्राम्यसूकरः ।वाजिना-अश्वेन । ५४.९.हाटक-सुवर्णम् । त्रोटयति-भनक्ति। ५४.१.अंहति-उरसा गच्छति । ग्रामसिंहस्य-शुनः । ५५.३. ग्रामटिके-अल्ये ग्रामे । ५५.४.वेतण्डा-गज४ । ५६.१.अजगरम्-महासर्पम् । ५६.६. वाधुषिक:-द्रव्यवृद्धये ऋण यच्छंस्तेनैव च कर्मणाजीविकां कुर्वन् । ५६.१०.सुमनांसि-पुष्पाणि कर्तृ)। सरघा-मधुमक्षिका (कर्म)। ५६.११. स्वरोध-स्वरुरिन्द्रस्य वज्रायुधं, तस्य । सरु:-मुष्टिना ग्रहणाझे भागः। ५७.२. दृश्यकाव्यस्य-नाटकस्य।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73