Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram
View full book text
________________
[९५-९६]
३.
दैहिकाः क्लेशा योगेन दूरीभवन्तीति दृष्टिन्यूनस्य
दीर्घ भाषणम् ।
४.
ध्यात्वाऽऽत्मानं धुनुते दैन्यम् ।
५.
पद्मासनं पक्वं सद्मरहितानाम् ।
६.
पातञ्जलेन योगेन स्फीतं तमो हन्ति ।
७.
प्राणायामं चिकीर्षुः प्राणसंकटं व्यतानीत् । बकासनाभ्यासेऽपि बकबुद्धिर्न बाधिता । ९. वीक्षणे कृतकष्टानां तुष्टिरष्टासु सिद्धिषु ।
८.
आभाणकजगन्नाथः
१०. शवासनं कृत्वा भवातङ्कं भनक्ति । ११. शिवयोगी कालेन भवरोगी बभूव । १२. स्वयं तङ्कति, सहस्रं संसारिणः
शङ्कापङ्कादुद्दिधीर्षति । ९६. दर्शनम्
१.
२.
3.
अध्यात्ममार्गः सुध्यानयोगः ।
अध्यात्मे मेधिरा एव मेदिनीधराः । अहमः शोधः सर्वविबोधः ।
[१२७९]
९५.३.अत्रापि पूर्वतनाभाणकोक्त एवाभिप्रायः । ९५.४. धुनुते - कम्पयति, लक्षणया प्रभावहीनं करोति, निवारयति वा । ९५.५. पद्मासनं लक्षणया योगाभ्यासः । पक्वं सिद्धिजनकम् । सद्म लक्षणया लौकिकी चिन्ता । ९५.६. स्फीतं - वृद्धम् । स्फायी वृद्धौ । स्फायः स्फी निष्ठायाम् ( ६.१.२६ ) इति स्यादेशः । ९५.९ वीक्षणे आत्मदर्शने । कृतकष्टानां तप आचरताम् । ९५.१२.धनार्थं गुरुवेषं धरतां परामर्शः कृतोऽत्र । ९६.२. मेधिरा:- मेधावन्तः । वैदिकोऽयं शब्दः ।
८८
8.
५.
६.
७.
८.
S.
आभाणकजगन्नाथः
अहमेव ममापिः ।
अहमो मुक्तिः शुद्धा युक्तिः ।
ऊढानां सङ्घे रूढाध्यात्मनां किं कृत्यम् ?
एकान्ते शोकान्तः ।
एको मार्गो मृग्यमेकं तुरीयम् ।
एतावदेवेदमिति ज्ञाते पातालं प्रापय प्रमाणशास्त्राणि ।
१०. कन्थां गृहीत्वा पन्थानं गच्छ ।
११. गिरा गुरोर्निःसरति मार्गं मार्गयेति ।
१२. गुरुभावं प्राप्तुम् उरुगाये पथि पद्यस्व । ग्रन्थानध्वीष्व, पन्थानं तु स्वयमन्विष्य ।
१३.
१४.
जुनात्यात्मा पुनात्यात्मा ।
१५. तनुमनसी त्यजन्ति तविषीभिर्मिलन्ति ।
१६. तमो याति, ज्ञानमेति ।
१७. तरङ्गा भवन्ति, त्रिरङ्गाः स्वनन्ति ।
१८. दर्शनं दाशुषे दीर्घदण्डः प्रणामः ।
[९६-९६]
९६.४. आपि-बन्धुः । वैदिकोऽयं शब्दः । ९६. ५. अहम:- अस्मद् + ङसि । ९६.१२.उरुगाये-श्रेष्ठैः स्तूयमाने । प्रशस्त इति यावत् । वैदिकोऽयं शब्दः । पद्यस्व गच्छ । पद गतौ । ९६.१४. जुनाति प्रेरयति । वैदिकोऽयं शब्दः । ९६.१५. तविषीभिः बलैः । वैदिकोऽयं शब्दः । ९६.१७. त्रिरङ्गाःसत्त्व- रजस्-तम आख्याः । ९६.१८. दर्शनम् तत्त्वज्ञानम् । दाशुषे दत्तवत्ते, लक्षणया ददानाय । वैदिकोऽयं शब्दः ।
८९

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73