Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 36
________________ [५७-५९] ४. ५. ६. धीनास्ति रासभस्य, हीनास्ति जठरस्य । सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । यूषाक्तमोदनं पीयूषवेदनम् । ५८. धर्म: १. अस्थाने दया धर्मं द्यति । २. कर्मप्रपञ्चे धर्मक्लेशाः । धर्मनिष्ठानां कर्मपीडा । धर्मवतां दुर्मरणम् । धर्मारण्ये दारुच्छेदः । ३. ४. आभाणकजगन्नाथः ५. ६. लटकेषु धर्मशास्त्रं लगुडात्मकम्। ७. स्तुतिकृतिरबला गाली प्रबला । ५९. पुण्यं पापं च १. २. [ ७०७ ] गजान् हन्तुर्गोपूजायां महती प्रीतिः । गौतमबुद्धं ध्यात्वा घोरं खङ्गं लाति । चोरितेन पुष्पेण धर्मदेवस्य पूजा । ३. ४. तावद्दनं पापं यावद्दनं पुण्यम् । पटहनिर्माणाय मूकप्राणिनां मारणम् । ५. ५७. ६. यूषा 'सारु' इति कन्नडे । अनया मिश्रितस्य ओदनस्यादनं कर्णाटके नितरां प्रसिद्धम् । ओदनशब्दो नपुंस्यपि । वेदनं सुखम् । 'वेदनं सुखदुःखयोर्’ इत्यमरः । ५८.१. यति खण्डयति । दो अवखण्डने । ५८.६. लटकेषु दुष्टेषु । ५९. २. लाति आदत्ते । ला आदाने । ५९.४. दघ्नम् परिमाणकम् । ५० [७१४] आभाणकजगन्नाथः पापाचरणेन पुण्यसंचयः। पालीत्रिपिटकेन पिपीलिकां मारयति । ६. ७. ८. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । पुण्यपादपे पापफलम् । ९. १०. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् । ११. पुरस्ताद्देवस्य पादरक्षायां चिन्ता । १२. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् । १३. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः । १४. पूर्णे पापे प्रच्छकः कोऽपि नास्ति । १५. प्राचीनं पुण्यं नवीनं पापमभूत् । १६. प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः । १७. फलिते पापे दलितं हृदयम् । १८. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः । १९. [५९-६०] शैलदघ्नेषु पातकेष्वैलबिलेन कृतेषु चैलधावस्य पापं कैलासदघ्नम् । [७३३] ६०. फलज्यौतिषम् १. इक्षं भक्षयितुम् इभस्य कीदृशो मुहूर्त: ? ५९.९. पादपे - वृक्षे । ५९.१७. दलितं खण्डशो विभक्तम् । ५९.१९.. शैलदघ्नेषु पर्वतपरिमाणेषु । ऐलविलेन- कुवेरेण, लक्षणया धनिकेन । चैलधावस्य- रजकस्य, लक्षणया दरिद्रस्य । कैलासदघ्नम् - कैलासपर्वतपरिमाणकम् । धनिकस्य पापफलं दरिद्रस्योपरि क्षिप्यत इत्यर्थः । ६०.१. इभस्य गजस्य । ५१

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73