Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 42
________________ [७०-७१] १२. भवनादानं समाप्य " तव नामधेयं किम् " इति पृच्छति । १३. शुभे कृते शापमुत्सर्जति । १. २. ३. ४. आभाणकजगन्नाथः ५. ६. ७. ८. ७१. नीचाः अपकीर्तिरपवित्रहृदां स्फूर्तिः । अयोग्यान् सौभाग्यलक्ष्मीरयते । अस्थिहीनाया जिह्वाया अनवरोधम् एजनम्। ईतिः परेषामस्तु, ममेयमेव रीतिः । कलुषितमतेः कनकधाराऽपि कच्चरपरवाहः । कारवेल्लचक्षुष्काणां भुवनं भूरि तिक्तम् । [८८७] कुहनावतामग्रे पृतनावतामपि मृदि लोठनम् । किट्टं नापगच्छति पट्टाभिषेकेण । क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम् । ९. १०. खलम् आलिलिङ्गिषुः खङ्गं प्रीत्या लेढि । ११. गोप्रकाण्डस्य गौरवं गर्दभो न गणयति । १२. चारुरूपा अपि घोरवर्पसो दूषितदृश्वनाम् । ७०.१२. भवनादानं भवनस्य गृहस्य, आदानं स्वीकारम् । भवनस्य दानं कृतवतः परिचयो नास्तीतीवाभिनयतीत्यर्थः । ७१.२. अयते गच्छति । ७१.३. अनवरोधम्-रोधरहितम् । एजनम् कम्पनम् । ७१.४. ईतिः- पीडा । ७१.७. पृतनासेना । ७१.८. किट्ट मालिन्यम् । ७१.९. क्षौद्रं मधु । ७१.१०. आलिलिङ्गिषुःआलिङ्गितुमिच्छुः । ७१.११. गोप्रकाण्डस्य गोश्रेष्ठस्य । ७१.१२. घोरवर्पसःभयङ्करशरीराः । वैदिकोऽयं शब्दः । દૂર आभाणकजगन्नाथः १३. तुच्छोऽपि चमरपुच्छोऽपि । १४. दुर्दमः कर्दमः । १५. दुर्व्यवहारिणां दिव्योपदेशाः । १६. नीचेषु नाराच एव नीतिः । १७. परनिन्दा पायसं पिशुनानाम् । १८. पराक्षेपः केषाञ्चिद् विराभ्यासः । १९. पापिष्ठानां प्रचुरमायुः । २०. पिशाचेन पुराणप्रवचनम् । २१. प्रदत्ते तृणे प्रस्तुम्पति । २२. भीरोरार्याद् भीतैर्भ्रान्तैः शूरोऽनार्यः प्रीत्या सेव्यः । २३. लज्जाशून्याः सकलैर्मान्याः । २४. लोप्त्रेण जीविका लोलशीलस्य पालकस्य । २५. विश्वासघाती वस्त्राञ्चले वृश्चिकः । २६. वृतिं लङ्कमाना गोधा व्रतमुपदिशति सीमानतिक्रमणे । २७. शीलभ्रष्टैः शान्त्युपदेशः । २८. सर्वत्र मृदेव सीसकदृष्टीनाम् । [७१-७१] २९. स्वयं कृतं सुवर्णं परकृतं कुवर्णम् । ३०. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति । ७१. १३. चमरपुच्छ:- Squirrel. ७१.१६. नाराचः- अयोनिर्मितो बाणः । ७१.१८. विराभ्यासः - विराम -कालिक अभ्यास:- hobby मया सृष्टोऽयं शब्दः । ७१.२१. प्रस्तुम्पति शृङ्गेण तुदति । ७१.२४. लोवेण चोरितेन द्रव्येण । ७१.२६. गोधा Salamander सीमानतिक्रमणे सीमातिक्रमराहित्यविषये । विषयसप्तमी । ७१.३०. पश्यतोहरा - bandits. ६३

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73