Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 50
________________ [८६-८६] १. २. ३. ४. आभाणकजगन्नाथ: ८६. विद्या अइउणमविज्ञाय पाणिनिमाकारयति नियुद्धाय । अपकारार्थम् उपनिषदाम् उपयोगः । आचार्योपदेशो वा नीचा वाचो वा ? आर्षान् ग्रन्थान् पठित्वा कार्षापणाय केशाकेशि करोति । ५. कठिनीविद्या केषाञ्चित् कठिना विद्या । ६. गुरोः पापेन घोरेण गृहीतः शिष्य उच्यते । ७. चोरः शिष्यश्छुरिकावान् आचार्यः। निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा । ८. ९. निरक्षरभट्टाचार्याय नैषधं काव्यम् । १०. नैके गुरवो नाना भ्रान्तयः। ११. पठने लब्धं ज्ञानं रटने नष्टम् । १२. पठित्वा पठित्वा शठोऽभवत् । १३. पिशाचानां किं पण्डितभाषया ? १४. पीठे स्थिते पाठेन किम् ? १५. बोधोदयेऽपि शोधो विधेयः । १६. बोधे जाते बुद्धिर्वका । १७. बोधे रुदिते बाधो हसति । ८६. १. नियुद्धाय मल्लयुद्धाय । ८६.५. कठिनी-लेखनसामग्री । यद्यपि कठिनत्वं नाम स्पर्शपरुषत्वं न क्लेशप्रदत्वम् । तथापि ग्रहणसुलभत्वं यत्र नास्ति तत्र ग्रहणे कोमलत्वप्रतियोगि परुषत्वमनुभूयत इति कारणात् कठिनशब्दस्य क्लेशरूपोऽर्थ आक्षिप्यते । ७८ आभाणकजगन्नाथः १८. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमाला व न जानाति । १९. मूर्खाचार्यस्य मर्कटः शिष्यः । २०. रोदनशीलस्य पुरस्ताद् वेदघोषः । २१. वरवाङ्मयनिर्माणे परकायाप्रवेशः । २२. विद्यां वर्तने पश्य । २३. विद्यावतां ग्रन्था एव पन्थाः । २४. वीध्रबुद्धीनां वाचाटतैव वेदशास्त्राणि । २५. शषसान् अबुद्धा शास्त्राण्युपदिशति । २६. शास्त्राण्यधीत्य शीर्ष कुट्टयति । २७. संप्रदायः कम्प्र एव । २८. सरस्वत्या प्रणतानां स्वान्तं शान्तम् । २९. स्थूलायां त्वचायां सरस्वती न लगति । १. २. ३. ४. ८७. ग्रन्थो मूलं व्याख्या च । ग्रन्थं रिरचयिषुर्ग्रन्थिं ससर्ज । ग्रन्थे मुद्रिते गर्यो गलितः । टीका विकृता वलयति मूलम् । पिचुविषये पर्वतदघ्ना पृच्छा । पुस्तकं पठित्वा दुस्तरं साधयति । [८६-८७] ७९ [११५६] ५. ८६. २४. वीध्रबुद्धीनाम् विमलमतीनाम् । ८६.२७. कम्प्रः- कम्पनशीलः । कम्प+रन् । ८७.३.वलयति-कम्पयते । द्बल कम्पने । ८७.४. पित्रुः-लघुः कार्पासपिण्डी । पर्वतदना-पर्वतपरिमाणा ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73