________________
[८६-८६]
१.
२.
३.
४.
आभाणकजगन्नाथ:
८६. विद्या
अइउणमविज्ञाय पाणिनिमाकारयति नियुद्धाय ।
अपकारार्थम् उपनिषदाम् उपयोगः ।
आचार्योपदेशो वा नीचा वाचो वा ? आर्षान् ग्रन्थान् पठित्वा कार्षापणाय केशाकेशि
करोति ।
५.
कठिनीविद्या केषाञ्चित् कठिना विद्या ।
६. गुरोः पापेन घोरेण गृहीतः शिष्य उच्यते ।
७.
चोरः शिष्यश्छुरिकावान् आचार्यः। निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा ।
८.
९. निरक्षरभट्टाचार्याय नैषधं काव्यम् ।
१०. नैके गुरवो नाना भ्रान्तयः।
११. पठने लब्धं ज्ञानं रटने नष्टम् ।
१२. पठित्वा पठित्वा शठोऽभवत् ।
१३. पिशाचानां किं पण्डितभाषया ?
१४. पीठे स्थिते पाठेन किम् ?
१५. बोधोदयेऽपि शोधो विधेयः ।
१६. बोधे जाते बुद्धिर्वका ।
१७. बोधे रुदिते बाधो हसति ।
८६. १. नियुद्धाय मल्लयुद्धाय । ८६.५. कठिनी-लेखनसामग्री । यद्यपि कठिनत्वं
नाम स्पर्शपरुषत्वं न क्लेशप्रदत्वम् । तथापि ग्रहणसुलभत्वं यत्र नास्ति तत्र ग्रहणे कोमलत्वप्रतियोगि परुषत्वमनुभूयत इति कारणात् कठिनशब्दस्य क्लेशरूपोऽर्थ आक्षिप्यते ।
७८
आभाणकजगन्नाथः
१८. महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमाला व
न जानाति ।
१९. मूर्खाचार्यस्य मर्कटः शिष्यः ।
२०. रोदनशीलस्य पुरस्ताद् वेदघोषः ।
२१. वरवाङ्मयनिर्माणे परकायाप्रवेशः ।
२२. विद्यां वर्तने पश्य ।
२३. विद्यावतां ग्रन्था एव पन्थाः ।
२४. वीध्रबुद्धीनां वाचाटतैव वेदशास्त्राणि ।
२५. शषसान् अबुद्धा शास्त्राण्युपदिशति ।
२६. शास्त्राण्यधीत्य शीर्ष कुट्टयति ।
२७. संप्रदायः कम्प्र एव ।
२८.
सरस्वत्या प्रणतानां स्वान्तं शान्तम् ।
२९. स्थूलायां त्वचायां सरस्वती न लगति ।
१.
२.
३.
४.
८७. ग्रन्थो मूलं व्याख्या च ।
ग्रन्थं रिरचयिषुर्ग्रन्थिं ससर्ज ।
ग्रन्थे मुद्रिते गर्यो गलितः ।
टीका विकृता वलयति मूलम् ।
पिचुविषये पर्वतदघ्ना पृच्छा ।
पुस्तकं पठित्वा दुस्तरं साधयति ।
[८६-८७]
७९
[११५६]
५.
८६. २४. वीध्रबुद्धीनाम् विमलमतीनाम् । ८६.२७. कम्प्रः- कम्पनशीलः । कम्प+रन् । ८७.३.वलयति-कम्पयते । द्बल कम्पने । ८७.४. पित्रुः-लघुः कार्पासपिण्डी । पर्वतदना-पर्वतपरिमाणा ।