________________
[७०-७१]
१२. भवनादानं समाप्य " तव नामधेयं किम् " इति
पृच्छति ।
१३. शुभे कृते शापमुत्सर्जति ।
१.
२.
३.
४.
आभाणकजगन्नाथः
५.
६.
७.
८.
७१. नीचाः
अपकीर्तिरपवित्रहृदां स्फूर्तिः । अयोग्यान् सौभाग्यलक्ष्मीरयते ।
अस्थिहीनाया जिह्वाया अनवरोधम् एजनम्। ईतिः परेषामस्तु, ममेयमेव रीतिः । कलुषितमतेः कनकधाराऽपि कच्चरपरवाहः । कारवेल्लचक्षुष्काणां भुवनं भूरि तिक्तम् ।
[८८७]
कुहनावतामग्रे पृतनावतामपि मृदि लोठनम् । किट्टं नापगच्छति पट्टाभिषेकेण ।
क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम् ।
९.
१०. खलम् आलिलिङ्गिषुः खङ्गं प्रीत्या लेढि ।
११. गोप्रकाण्डस्य गौरवं गर्दभो न गणयति ।
१२. चारुरूपा अपि घोरवर्पसो दूषितदृश्वनाम् ।
७०.१२. भवनादानं भवनस्य गृहस्य, आदानं स्वीकारम् । भवनस्य दानं कृतवतः परिचयो नास्तीतीवाभिनयतीत्यर्थः । ७१.२. अयते गच्छति । ७१.३. अनवरोधम्-रोधरहितम् । एजनम् कम्पनम् । ७१.४. ईतिः- पीडा । ७१.७. पृतनासेना । ७१.८. किट्ट मालिन्यम् । ७१.९. क्षौद्रं मधु । ७१.१०. आलिलिङ्गिषुःआलिङ्गितुमिच्छुः । ७१.११. गोप्रकाण्डस्य गोश्रेष्ठस्य । ७१.१२. घोरवर्पसःभयङ्करशरीराः । वैदिकोऽयं शब्दः ।
દૂર
आभाणकजगन्नाथः
१३. तुच्छोऽपि चमरपुच्छोऽपि ।
१४. दुर्दमः कर्दमः ।
१५. दुर्व्यवहारिणां दिव्योपदेशाः । १६. नीचेषु नाराच एव नीतिः ।
१७. परनिन्दा पायसं पिशुनानाम् । १८. पराक्षेपः केषाञ्चिद् विराभ्यासः ।
१९. पापिष्ठानां प्रचुरमायुः ।
२०. पिशाचेन पुराणप्रवचनम् ।
२१. प्रदत्ते तृणे प्रस्तुम्पति ।
२२. भीरोरार्याद् भीतैर्भ्रान्तैः शूरोऽनार्यः प्रीत्या सेव्यः ।
२३. लज्जाशून्याः सकलैर्मान्याः ।
२४. लोप्त्रेण जीविका लोलशीलस्य पालकस्य ।
२५. विश्वासघाती वस्त्राञ्चले वृश्चिकः ।
२६. वृतिं लङ्कमाना गोधा व्रतमुपदिशति सीमानतिक्रमणे ।
२७. शीलभ्रष्टैः शान्त्युपदेशः ।
२८. सर्वत्र मृदेव सीसकदृष्टीनाम् ।
[७१-७१]
२९. स्वयं कृतं सुवर्णं परकृतं कुवर्णम् ।
३०. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति ।
७१. १३. चमरपुच्छ:- Squirrel. ७१.१६. नाराचः- अयोनिर्मितो बाणः । ७१.१८. विराभ्यासः - विराम -कालिक अभ्यास:- hobby मया सृष्टोऽयं शब्दः । ७१.२१. प्रस्तुम्पति शृङ्गेण तुदति । ७१.२४. लोवेण चोरितेन द्रव्येण । ७१.२६. गोधा Salamander सीमानतिक्रमणे सीमातिक्रमराहित्यविषये । विषयसप्तमी । ७१.३०. पश्यतोहरा - bandits.
६३