________________
[५७-५९]
४.
५.
६.
धीनास्ति रासभस्य, हीनास्ति जठरस्य ।
सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । यूषाक्तमोदनं पीयूषवेदनम् ।
५८. धर्म:
१.
अस्थाने दया धर्मं द्यति ।
२. कर्मप्रपञ्चे धर्मक्लेशाः ।
धर्मनिष्ठानां कर्मपीडा ।
धर्मवतां दुर्मरणम् ।
धर्मारण्ये दारुच्छेदः ।
३.
४.
आभाणकजगन्नाथः
५.
६. लटकेषु धर्मशास्त्रं लगुडात्मकम्। ७. स्तुतिकृतिरबला गाली प्रबला ।
५९. पुण्यं पापं च
१.
२.
[ ७०७ ]
गजान् हन्तुर्गोपूजायां महती प्रीतिः ।
गौतमबुद्धं ध्यात्वा घोरं खङ्गं लाति ।
चोरितेन पुष्पेण धर्मदेवस्य पूजा ।
३.
४.
तावद्दनं पापं यावद्दनं पुण्यम् ।
पटहनिर्माणाय मूकप्राणिनां मारणम् ।
५.
५७. ६. यूषा 'सारु' इति कन्नडे । अनया मिश्रितस्य ओदनस्यादनं कर्णाटके नितरां प्रसिद्धम् । ओदनशब्दो नपुंस्यपि । वेदनं सुखम् । 'वेदनं सुखदुःखयोर्’ इत्यमरः । ५८.१. यति खण्डयति । दो अवखण्डने । ५८.६. लटकेषु दुष्टेषु । ५९. २. लाति आदत्ते । ला आदाने । ५९.४. दघ्नम् परिमाणकम् ।
५०
[७१४]
आभाणकजगन्नाथः
पापाचरणेन पुण्यसंचयः।
पालीत्रिपिटकेन पिपीलिकां मारयति ।
६.
७.
८. पुण्यं स्वप्रणीतं परैरनुष्ठितं कुम्भीपाकाय । पुण्यपादपे पापफलम् ।
९.
१०. पुण्येनार्जितं द्रव्यं पापाय व्ययितम् ।
११. पुरस्ताद्देवस्य पादरक्षायां चिन्ता ।
१२. पुराणं श्रुत्वा पादरक्षाम् अचूचुरत् । १३. पुस्तकचोरस्य पुण्ये पञ्च प्राणाः । १४. पूर्णे पापे प्रच्छकः कोऽपि नास्ति । १५. प्राचीनं पुण्यं नवीनं पापमभूत् ।
१६. प्राचीनपुण्यानां प्रत्यग्रपापेन परिहारः । १७. फलिते पापे दलितं हृदयम् ।
१८. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः । १९.
[५९-६०]
शैलदघ्नेषु पातकेष्वैलबिलेन कृतेषु चैलधावस्य पापं कैलासदघ्नम् ।
[७३३]
६०. फलज्यौतिषम्
१. इक्षं भक्षयितुम् इभस्य कीदृशो मुहूर्त: ?
५९.९. पादपे - वृक्षे । ५९.१७. दलितं खण्डशो विभक्तम् । ५९.१९.. शैलदघ्नेषु पर्वतपरिमाणेषु । ऐलविलेन- कुवेरेण, लक्षणया धनिकेन । चैलधावस्य- रजकस्य, लक्षणया दरिद्रस्य । कैलासदघ्नम् - कैलासपर्वतपरिमाणकम् । धनिकस्य पापफलं दरिद्रस्योपरि क्षिप्यत इत्यर्थः । ६०.१. इभस्य गजस्य ।
५१