________________
[६०-६१]
आभाणकजगन्नाथः
१.
२.
२.
३.
४. निकृष्टा निटिलं निन्दन्ति ।
५.
६.
७.
८.
९.
ग्राहेण ग्रस्यमानानां ग्रहाः किम् उपकुर्युः ?
नवापि ग्रहा नोद्धरन्ति निद्रालून् जनान् ।
लोलबुद्धिर्ललाटं घट्टयति ।
शीर्षं स्वयं भवा शनीश्वरं भर्त्सयति ।
शाते जाते भुजाय ताली, शोके स्फीते ग्रहाय गाली ।
सूर्य: संसर्पति व्योम्नि संसर्प समधीत्य किम् ?
स्वके ललाटे स्वयमेव लिख्यते ।
६१.गर्वः
असत्यपि वर्षणे, स्फूर्जथुः कर्णभित् । अहंयुर्गोमायुर्गिरिमाज्ञापयति । अहमपि वीरः सदने शूरः ।
अहल्लिकस्य नासाम् अहश्चिच्छित्सति !
गरुडाय डयनं चटकः शिक्षते ।
गर्ववतां शिरसि दवताडनम् ।
३.
४.
५.
६.
७. गह्वरे गौधेर एव गरुडः ।
[७४२]
६०.२. ग्राहेण मकरेण । ६०.४. निटिलं- ललाटम् । ६०.७. शाते - सुखे (शर्मशातसुखानि च इत्यमरः स्मर्यताम् । ) । स्फीते - वृद्धिं गते स्फायी वृद्धौ । ६०.८. संसर्पम् अधिकं मासम् । प्राचीनोऽयं शब्दस्तैत्तिरीय ब्राह्मणेऽस्ति । ६१.२. अहंयु:- अहंकारी । गोमायुः शृगालः । ६१.४. अहल्लिकस्य- रात्रौ दृश्यमानस्य पिशाचविशेषस्य । (बृहदारण्यकोपनिषदि ३.९.२५) चिच्छित्सति-छेत्तुमिच्छति । ६१.७. गह्वरे-गुहायाम् । गौधेर:- गोधिका ।
५२
आभाणकजगन्नाथः
[६१-६१]
८. गौर्धौ शृङ्गौ, गर्वस्य नव शृङ्गाः। S. दम्भो वा कुयशःस्तम्भो वा ?
१०. दर्पसर्पो दारिद्र्येण दीनो बभूव ।
११. दिवान्धो देवान्धसं दित्सति ।
१२. नासिकया भूमिंस्पृक्षु महामल्लेषु चमरपुच्छः सोरुताडं गर्जति ।
१३.
पततोऽप्युदरम् उत्तानम् ।
१४. पर्पटीं कर्तुमजानन् पौरोगवपदवीं काङ्क्षते।
१५.
पातुं जलं नास्ति, “पायसं पित्तलपात्रे किम् ” इति जगर्ज ।
१६. भिक्षाजीवस्य स्वप्ने भृत्यस्तु कुबेरः !
१७. भिक्षाधीश्वरो यक्षाधीश्वरं पादमर्दनायाज्ञापयति !
१८.
मठे नष्टेऽपि हठः शिष्टः ।
१९.
मया गप्पे विकीर्णेऽपि ममान्वयः सत्यहरिश्चन्द्रस्य । २०. मां चक्रवर्तिनं कृत्वा त्वं राजा वा भव, सामन्तो
भव ।
२१. मुरजस्य स्थाने शब्ददम्भः मुनेरस्थाने मौनदम्भः । २२. मुष्टौ मे विष्टपत्रयी ।
६१.११. दिवान्ध-धूकः । देवान्धसम्- देवयोग्यमन्नम् । ६१.१२. चमरपुच्छ:Squirrel ६१.१३. उत्तानम् ऊर्ध्वमुखम् । ६१.१४. पौरोगव:- पाचकानाम् अध्यक्ष: । ६१.१६.भिक्षाजीवस्य भिक्षुकस्य । ६१.१९.गप्पे - अत्यन्तासत्ये वचसि । 'न संभवतिया वार्ता लोके सा गप्पमुच्यते । 'इति तल्लक्षणं मया कुत्रापि पठितम् । ६१.२२. विष्टपम् जगत् ।
५३